________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्ति:+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा - ], निर्युक्तिः [३०], भाष्यं [-]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
उत्पद्यते च पनकः, खदेहदेशे स सूक्ष्मपरिणामः । समयन्त्रयेण तस्यावगाहना पावती भवति ॥ ५ ॥ तावज्जघन्यमवधेरालम्बन वस्तुभाजनं क्षेत्रम् । इदमित्थमेव मुनिगणसुसंप्रदायात् समवसेयम् ६पञ्चभिः कुलकम्
अत्र कश्चिदाह-- किमिति महामत्स्यः १ किं वा तस्य तृतीयसमये निजदेहदेशे समुत्पादः ? त्रिसमयाहारकत्वं वा कल्प्यत इति ?, अत्रोच्यते, स एव हि महामत्स्यः त्रिभिः समयैरात्मानं संक्षिपन् प्रयत्नविशेषात् सूक्ष्मावगाहनो भवति नान्यः, प्रथमद्वितीयसमययोश्च अतिसूक्ष्मः चतुर्थादिषु चातिस्थूरः त्रिसमयाहारक एव च तद्योग्य इत्यतस्तद्र|हणमिति । अन्ये तु व्याचक्षते - त्रिसमयाहारक इति, आयामविष्कम्भसंहारसमयद्वयं सूचिसंहरणोत्पाद समयश्चेत्येते त्रयः समयाः, विग्रहाभावाच्चाहारक एतेषु इत्यत उत्पादसमय एव त्रिसमयाहारकः सूक्ष्मः पनकजीवो जघन्यावगाहनश्च, | अतस्तत्प्रमाणं जघन्यमवधिक्षेत्रमिति एतच्चायुक्तं, त्रिसमयाहारकत्वस्य पनकजीवविशेषणत्वात्, मत्स्यायामविष्कम्भसंहरणसमयद्वयस्य च पनकसमयायोगात्, त्रिसमयाहारकत्वाख्यविशेषणानुपपत्तिप्रसङ्गात् इति, अलं प्रसङ्गेनेति गाथार्थः ॥ ३० ॥ एवं तावत् जघन्यमवधिक्षेत्रमुक्तं, इदानीं उत्कृष्टमभिधातुकाम आह सव्वबहुअगणिजीवा, निरन्तरं जत्तियं भरिजासु । वित्तं सव्वदिसागं, परमोही खित्त निद्दिट्ठो ॥ ३१ ॥
व्याख्या - सर्वेभ्यो विवक्षित कालावस्थायिभ्योऽनलजीवेभ्य एव बहवः सर्ववहवः, न भूतभविष्यद्भ्यः, नापि शेषजीवेभ्यः, कुतः !, असंभवात्, अग्नयश्च ते जीवाश्च अग्निजीवाः, सर्वबहवश्च तेऽग्निजीवाश्च सर्वबह्वग्निजीवाः, 'निरन्तरं' इति क्रिया
* भरियां १४-५
Education International
For Parts Only
~69~