________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [८], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
याऽप्रदेशात्मसंप्रत्यय इत्यत आह-जीवस्य आत्मभूतां भवन्ति, ततश्चानेन निष्प्रदेशजीवादिनिराकरणमाह, सति निष्प्रदेशत्वे करचरणोरुग्रीवाद्यवयवसंसगाभावः, तदेकत्वापत्ते, कथम् -करादिसंयुक्तजीवप्रदेशस्य उत्तमाङ्गादिसंबद्धा
त्मप्रदेशेभ्यो भेदाभेदविकल्पानुपपत्तेरिति । य: किं करोतीत्याह-'यस्तु गृह्णाति' तुशब्दो विशेषणार्थः, किं विशिनष्टि ? ४-न सर्वदैव गृह्णाति, किन्तु तत्परिणामे सति, किं ?-गृह्यत इति ग्रहण, ग्रहणमिति “कृत्यल्युटो बहुलं" (पा०३-३-११३)
इतिवचनात्कर्मकारकं, शब्दद्रव्यनिवहमित्यर्थः, 'ततो' गृहीत्वा 'भाषते' वक्ति, भाषत इति भाषकः क्रियाऽऽविष्ट इत्यर्थः, अनेन निष्क्रियात्मवादब्यवच्छेदमाह,सति तस्मिन्निष्क्रियत्वात् अप्रच्युतानुत्पन्नस्थिरैकरूपत्वाद्भाषणाभावप्रसङ्गः, काम् ?भाष्यत इति भाषा तां भाषां। आह-'ततो भापते भाषक' इत्यनेनैव गतार्थत्वादापाग्रहणमतिरिच्यते इति, न, अभिप्रायापरिज्ञानात् , यह भाष्यमाणैव भायोच्यते, न पूर्व नापि पश्चादू, इत्यस्यार्थस्य ख्यापनाय भाषाग्रहणमदुष्टमेवेति गाथार्थः ॥८॥
यदुक्तं-'त्रिविधे शरीरे' इत्यादि, तत्र न ज्ञायते कतमस् वैविध्यमिति, अतस्तदभिधातुकाम आहओरालियवेउब्बियआहारो गिण्हई मुयइ भासं । सचं मोसं सचामोसं च असबमोसं च ॥९॥
अभेदपच्या तप्रस्थाः प्रदेशा जीवाभिन्नाः, गुतदेव च जीवस्येस्युच्चारणे फलं, अन्यथा 'जीवप्रदेशा' इत्यनेन संबद्धार्थाचगमात, २ नैयायिकवैशेषिकादयः, तन्मते हि नित्यं निरवयवमेव, सावयवत्वे हि कार्यत्वापश्या अनित्यत्वापत्तिः, घटादीनामिव । ३ करचरणादयो हिसावयवा इत्युभयसंमतं, आत्मा च |सैः प्रत्यवयवमेव संयुज्यते, संयोगा स्यात्तदा यदि स्वादारमा सावयवः, प्रतिप्रदेशं च संयोगवान् , ततो निष्पवेशे करचरणाअवयवसंयोगो न स्वादात्मनः, संसमें हि निष्प्रदेशस्यात्मनः कादिभिः, करादीनामपि निष्प्रदेशकारमनः प्रत्ययययेन संसर्गात्स्वरूपापत्या निष्प्रदेशत्वेनैकत्वापत्तिः, भेदे सावयवत्वाप्रतिशातहानिः, अनेदे भिशापयवसंयोगानुपपत्तेस्तदेकतरेण सारमकता न सरित्यनिष्टेः. ५जीवप्रदेशः भाषणपरिणामे. ७ निस्क्रिय आत्मनि.
~ 41~