SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [४३४], भाष्यं [४४...], CONCE प्रत सूत्रांक संचरतेहिं ॥१॥" तत्र भगवान् त्रिदशनरेन्द्रैः स्तूयमानो मोक्षं गत इति गाथार्थः ॥ ४३४ ॥ साम्प्रतं निर्वाणगमनविधिप्रतिपादनाय एनां द्वारगाथामाहनिब्वाणं१चिइगागिई जिणस्स इक्खागसेसयार्ण चर।सकहाश्थूभ जिणहरे४ जायगश्तेणाहिअग्गित्ति ६४३५ | व्याख्या-'निर्वाणमिति' भगवान् दशसहस्रपरिवारो निर्वाणं प्राप्तः, अत्रान्तरे च देवाः सर्व एवाष्टापदमागताः । 'चितिकाकृतिरिति' ते तिस्रः चिता वृत्तव्यनचतुरस्राकृतीः कृतवन्तः इति, एका पूर्वेण अपरां दक्षिणेन तृतीयामपरेणेति, तत्र पूर्वा तीर्थकृतः दक्षिणा इक्ष्वाकूणां अपरा शेषाणामिति, ततः अग्निकुमाराः वदनैः खलु अग्निं प्रक्षिप्तवन्तः, तत एव निबन्धनालोके 'अग्निमुखा वै देवाः' इति प्रसिद्ध, वायुकुमारास्तु वातं मुक्तवन्त इति, मांसशोणिते च ध्यामिते सति मेघ| कुमाराः सुरभिणा क्षीरोदजलेन निर्वापितवन्तः। 'सकथेति' सकथा-हनुमोच्यते, तत्र दक्षिणां हनुमां भगवतः संबन्धिनी शको जग्राह वामामीशानः आधस्त्यदक्षिणां पुनश्चमरः आधस्त्योत्तरां तु बलिः, अवशेपास्तु त्रिदशाः शेषाङ्गानि गृही-13 तवन्तः, नरेश्वरादयस्तु भस्म गृहीतवन्तः, शेषलोकास्तु तदस्मना पुण्डूकाणि चक्रुः, तत एव च प्रसिद्धिमुपागतानि । 'स्तूपा जिनगृहं चेति' भरतो भगवन्तमुद्दिश्य वर्धकीरलेन योजनायाम त्रिगव्यूतोच्छ्रितं सिंहनिषद्यायतनं कारितवान्, |निजवर्णप्रमाणयुक्ताः चतुर्विंशति जीवाभिगमोक्तपरिवारयुक्ताः तीर्थकरप्रतिमा तथा भ्रातृशतप्रतिमा आत्मप्रतिमां च स्तूपशतं च,मा कश्चिद् आक्रमणं करिष्यतीति, तत्रैकां भगवतः शेषान् एकोनशतस्य भ्रातृणामिति, तथा लोहमयान यन्त्र| पुरुषान् तद्वारपालांश्चकार, दण्डरलेन अष्टापदं च सर्वतश्छिन्नवान्, योजने योजने अष्टौ पदानि च कृतवान् , सगरसुतैस्तु अनुक्रम alangionary.com पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: जिनेश्वरस्य निर्वानगमनविधि: कथयते ~347~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy