________________
आगम
(४०)
प्रत
सूत्रांक
[-]
दीप
अनुक्रम [-]
[भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः)
निर्युक्तिः [९],
भाष्यं [-]
अध्ययनं [-], मूलं [- /गाथा - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
॥९॥
आवश्यक - ४ निबोधिकज्ञानं द्विधा, श्रुतनिश्रितमश्रुतनिश्रितं च यत्पूर्वमेव कृतश्रुतोपकारं इदानीं पुनस्तदनपेक्षमेवानुप्रवर्त्तते तद् अवग्रहादिलक्षणं श्रुतनिश्रितमिति । यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशमपटीयस्त्वात् औत्पत्तिक्यादिलक्षणं उपजायते तदश्रुतनिश्रितमिति । आह - "तिवग्गमुत्तत्थगहियपेयाला" इति वचनात् तत्रापि किञ्चित् श्रुतोपकारादेव जायते, तत्कथमश्रुतनिश्रितमिति, उच्यते, अवग्रहादीनां श्रुतनिश्चिताभिधानाद् औत्पत्तिक्यादिचतुष्टयेऽपिच अवग्रहादिसद्भावात् यथायोगमश्रुतनिश्रितत्वमवसेयं, न तु सर्वमेवेति, अयमत्र भावार्थ:-- श्रुतकृतोपकारनिरपेक्षं यदौत्पत्तिक्यादि तदश्रुतनिश्रितं, प्रातिभमितिहृदयं, वैनयिकीं विहायेत्यर्थः, बुद्धिसाम्याच्च तस्या अपि निर्युक्तौ उपन्यासोऽविरुद्ध इत्यलं प्रसङ्गेन । तत्र श्रुतनिश्रितमतिज्ञानस्वरूपप्रदर्शनायाह
उग्गह ईहाऽवाओ य धारणा एव हुंति चस्तारि । आभिणिबोहिषनाणस्स भेयवत्थू समासेणं ॥ २ ॥ व्याख्या— तत्र सामान्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणं अवग्रहः, तदर्थविशेषालोचनं ईहा, तथा प्रक्रान्तार्थविशेषनिश्चयोऽवायः, चशब्दः पृथक् पृथक् अवग्रहादिस्वरूपस्वातन्त्र्यप्रदर्शनार्थः, अवग्रहादीनां ईहादयः
१ औत्पत्तिक्यादिविषयवस्तुसम्बन्धिपरिकर्म न श्रुतकृतमिति । २ परिकर्म विना. ३" प्रशा नवनचोडेलशालिनी प्रतिभा सता " सैव प्रातिभं नस्त्वत्र श्रुतकेवहातिरिकं सामयोगजन्यं प्रातिभ सकृच्छ्रतनिचितत्वात् यागः, बाहुल्यापेक्षया तद्मनुसरणं त्वश्रुतनिश्चितत्वं, बद्धा पूर्वमशिक्षितशास्त्रार्थस्वानिति वैनयिकी त्वन्यचेति हानं विमर्शमाधान्याच बुद्धिष्टवान्तभाव: श्रुतकृती०
Ja Eucation Internation
For Park Use Only
~28~
हारिभद्रीयवृत्तिः
विभागः १
॥९॥
waryra