SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] आवश्यक ॥१३४॥ [भाग-२८] “आवश्यक” - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [–], मूलं [−/गाथा - ], निर्युक्ति: [२११], भाष्यं [३०...], इति । 'अन्यलिङ्गं' साधुलिङ्गं 'कुलिङ्गं' तापसादिलिङ्गं तत्र न ते अन्यलिङ्गे निष्क्रान्ता नापि कुलिङ्गे, किंतु तीर्थकर - लिङ्ग एवेति, ग्राम्याचाराः विषयाः परीषहाः - क्षुत्पिपासादयः, तत्र ग्राम्याचारपरीषहयोर्विधिर्वाच्यः, कुमारप्रत्रजितैविषयान भुक्ताः शेषैर्भुक्ताः, परीषहाः पुनः सर्वैर्निर्जिता एवेति प्रथमद्वारगाथासमासार्थः । साम्प्रतं द्वितीयगाथागमनिकां-तत्र जीवोपलम्भः सर्वैरेव तीर्थकरैर्नव जीवादिपदार्था उपलब्धा इति । श्रुतलाभः - पूर्वभवे प्रथमस्य द्वादशा- ४ ङ्गानि खल्वासन् शेषाणामेकादशेति । प्रत्याख्यानं च पञ्च महाव्रतरूपं पुरिमपश्चिमयोः मध्यमानां तु चतुर्महान्नतरूपमिति, मैथुनस्य परिग्रहेऽन्तर्भावात् । संयमोऽपि पुरिमपश्चिमयोः सामायिकच्छेदोपस्थापनाभ्यां द्विभेदः, मध्यमानां सामायिकरूप एव, सप्तदशप्रकारो वा सर्वेषामिति । छादयतीति छद्म-कर्माभिधीयते, छद्मनि तिष्ठन्ति इति छद्मस्थाः कः कियन्तं काल छद्मस्थः खल्वासीदिति । तथा तपःकर्म किं कस्येति वक्तव्यं । तथा ज्ञानोत्पादो वक्तव्यो, यस्य यस्मिन्नहनि केवलमुत्पन्नमिति । तथा संग्रहो वक्तव्यः, शिष्यादिसंग्रह इति द्वितीयद्वारगाथासमासार्थः । साम्प्रतं तृतीयद्वारगाथागमनिका-तत्र तीर्थमिति कथं कस्य कदा तीर्थमुत्पन्नमित्यादि वक्तव्यं, तीर्थ- प्रागुक्तशब्दार्थं तच्च चातुर्वर्णः श्रमणसङ्घः, तच्च ऋषभादीनां प्रथमसमवसरण एवोत्पन्नं, वीरस्य तु द्वितीय इति द्वारं । गण इति एकवाचनाचारक्रियास्थानां समुदायो न कुलसमुदाय इति, ते च ऋषभादीनां कस्य कियन्त इति वक्तव्यं । तथा गणधराः-सूत्रकर्त्तारः, ते च कस्य कियन्त इति वक्तव्यम् । तथा धर्मोपायस्य देशका वक्तव्याः, तत्र दुर्गती प्रपतन्तमात्मानं धारयतीति धर्मः, तस्य Educatinamational For Fans Only हारिभद्रीयवृत्तिः विभागः १ ~278~ ॥१३४॥ www.jancibrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४०] मूलसूत्र [०१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy