SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१६९], भाष्यं [३] आवश्यक ॥११४॥ भरतस्य चतुर्विधा दण्डनीतिरिति । अन्ये स्वेवं प्रतिपादयन्ति-किल परिभाषणामण्डलिवन्धी ऋषभनाथेनैवोत्पादिताविति, हारिभद्रीचारकच्छविच्छेदौ तु माणवकनिधेरुत्पन्नौ इति, भरतस्य-चक्रवर्त्तिन एवं चतुर्विधा नीतिरिति गाथार्थः ॥३॥ अथ यवृत्तिः कोऽयं भरत इत्याह-ऋषभनाथपुत्रः,अथ कोऽयं ऋषभनाथ इति तद्वक्तव्यताऽभिधित्सयाऽऽह-नाभी गाहा । अथवा प्रतिपादितः कुलकरवंशः,इदानीं प्राक्सूचितेवाकुवंशः प्रतिपाद्यते-सच ऋषभनाथप्रभव इत्यतस्तद्वक्तव्यताऽभिधित्सयाऽऽहनाभी विणीअभूमी मरुदेवी उत्तरा य साढा य । राया य बहरणाहो विमाणसब्बट्ठसिद्धाओ ॥१७॥ गमनिका-इयं हि नियुक्तिगाथा प्रभूतार्थप्रतिपादिका, अस्यां च प्रतिपदं कियाऽध्याहारः कार्यः, स चेस्थम्-नाभि-13 रिति नाभिनाम कुलकरो बभूव, विनीता भूमिरिति-तस्य विनीताभूमौ प्रायः अवस्थानमासीद्, मरुदेवीति तस्य भार्या, राजा चप्राग्भवे वैरनाभः सन् प्रवज्यां गृहीत्वा तीर्थकरनामगोत्रं कर्म बद्धा मृत्वा सर्वार्थसिद्धिमवाप्य ततस्तस्याः मरुदेव्याः तस्यां विनीतभूमौ सर्वार्थसिद्धाद्विमानादवतीर्य ऋषभनाथः संजातः, तस्योत्तराषाढानक्षत्रमासीत् इति गाथार्थः॥ १७०॥8 इदानीं यः प्राग्भवे वैरनाभः यथा च तेन सम्यक्त्वमवाप्तं यावतो वा भवान् अवाप्तसम्यक्त्वः संसारं पर्यटितः यथा च | तेन तीर्थकरनामगोत्रं कर्म बद्धमित्यमुमर्थमभिधित्सुराहधणसत्यवाह घोसण जइगमण अडविवासठाणं च । वहबोलीणे वासे चिंता घयदाणमासि तया ॥ १७१ ॥ ११॥ * प्रतिपाद. + धमिहुणसुरमहब्बलललियंगयवदरअंधमिहुणे य । सोहम्मविजभचुन चक्की सबह उसभे ॥ (गायेयं व्याख्याता नियुक्ती) REC44 Fu Pan मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४०], मूलसूत्र - [१] "आवश्यक" मूलं एवं हरिभद्रसूरि-रचित वृत्ति अत्र ऋषभनाथस्य वक्तव्यता दर्शयते, तद् अन्तर्गत पुर्वभवा: - धन सार्थवाह आदीनाम् वर्णनं क्रियते ~238~
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy