________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्तिः )
अध्ययनं -], मूलं [- /गाथा-], नियुक्ति: [१], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
प्रतिपद्यते, भेदाश्च पर्यायाएवेति,अथवा नामस्थापनाद्रव्याणि भावमङ्गलस्यैवाङ्गानि, तत्परिणामकारणत्वात् , तथा च मङ्गलाँद्यभिधानं सिद्धार्थेभिधानं चोपश्रुत्य अर्हत्प्रतिमास्थापनां च दृष्ट्वा भूतयतिभावं भव्ययतिर्शरीरं चोपलभ्य प्रायः सम्यग्दर्शनादिभावमङ्गलपरिणामो जायते, इत्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः-तत्र नोआगमतोऽहन्नमस्करादि भावमङ्गलमुक्त, अधवा नोआगमतो भावमङ्गलं नन्दी, तत्र नन्दनं नन्दी, नन्दन्त्यनयेति वा भव्यप्राणिनं इति नन्दी, असावपि च मङ्गलवन्नामादिचतुर्भेदभिन्ना अवगन्तव्येति, तत्र नामस्थापने पूर्ववत् , द्रव्यनन्दी द्विधा-आगमतो नोआगमतश्च, आगमतो| ज्ञाताऽनुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरोभयव्यतिरिक्ता च द्रव्यनन्दी द्वादशप्रकारस्तूर्यसंघौतः 'भंभा मुकुंद मद्दल कडंब झल्लरि हुडुक कंसाला । काहलि तैलिमा वसो, संखो पणवो य बारसमो॥१॥ तथा भावनन्द्यपि द्विधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता + उपयुक्तः, नोआगमतः पश्चप्रकारं ज्ञानं, तचेदम्आभिणियोहियनाणं सुयनाणं चेव ओहिनाणं च । तह मणपज्जवनाणं केवलनाणं च पंचमयं ॥१॥
जानीते. २ निक्षेपचतुष्कस्य भिन्न भिन्नाधिकरणतामाश्रित्याह. ३ अवयवाः.४ भावमालनिदानत्वात्. ५ आदिना ज्ञाननिर्जरादिप्रहः. ६ विशेषनाम्नां | कारणताथै, आदिना जिनेन्द्रादिः ७ सम्यग्दर्शनादेः प्रबलकारणत्वात् , काम्यम्भवादिवत् . ८ 'इमेणं सरीरसमुस्सएणं जिणदिवेणं भावेणं आवस्सएत्ति पयं सेभकाले सिक्खिस्सइ न ताच सिक्सति' इति अनुयोगद्वारचचनात् . ९ज्ञात्वा दृष्ट्वा वा १० क्लिष्टस्याभावात्. " ज्ञानचारित्रोपयोगग्रहः. १२ 'कप(पंचनमुकारस्स दिन्ति सामाइयाइयं विहिष्णा' इतिवचनात्सूत्रापेक्षं, १३ अनुयोगापेक्षं, नन्यनुयोगस्यैकदेशत्वादू - १४ कर्तृतामाएमाः, १५ 'दब्बे तूरसमुदभो' इति वचनात, क्रियाविशिष्ट इत्यध्याहार्वमन्यथा नामनन्दीरकापतेः. *तिलिमा १-४. सदुपयुक्तः 1-1-1.
SEARCCA
ज्ञानस्य आभिनिबोधिक आदि पञ्च प्रकारा:
~23~