________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३४], भाष्यं [-]
| ताहे मा डन्झिहितित्ति तुरितं णिग्गओ, अभओ णिप्फिडति, सेणिएणं भणि-पलीवितं !, सो भणति-आम, तुम किंण पविट्ठो, भणति-अहं पषइस्सामि किं मे अग्गिणा , पच्छा णेण चिंतिअं-मा छड्डिजिहितित्ति भणितं-ण डझत्ति । सेणियस्स चेल्लणाए पुर्वि अणणुओगो पुच्छिए अणुओगो, एवं विवरीए परूविए अणणुओगो जहाभावे परुविए अणुओगो ७ ॥ १३४ ॥ इत्थं तावदनुयोगः सप्रतिपक्षः प्रपश्चेनोक्तः, नियोगोऽपि पूर्वेप्रतिपादितस्वरूपमात्रः सोदाहरणोऽनुयोगवदवसेयः, साम्प्रतं प्रागुपन्यस्तभाषादिस्वरूपप्रतिपादनायाह
कढे १ पुत्थे २ चित्ते ३ सिरिघरिए ४ पुंड ५ देसिए ६ चेव । भासगविभासए वा वत्तीकरणे अ आहरणा ॥१३५॥ &I व्याख्या-तत्र 'काष्ठ' इति काष्टविषयो दृष्टान्तः, यथा काष्ठे कश्चित् तद्रूपकारः खल्वाकारमानं करोति, कश्चित्स्थ
लावयवनिष्पत्ति, कश्चित् पुनरशेषाङ्गोपाङ्गाद्यवयवनिष्पत्तिमिति, एवं काष्ठकल्पं सामायिकादिसूत्र, तत्र भाषकः परिस्थूरमर्थमात्रमभिधत्ते-यथा समभावः सामायिकमिति, विभाषकस्तु तस्यैवानेकधाऽर्थमभिधत्ते-यथा समभावः सामायिक, समानां वा आयः समायः स एव स्वार्थिकप्रत्ययविधानात्सामायिकमित्यादि, व्यक्तीकरणशीलो व्यक्तिकरः, यः खलु निरवशेषव्युत्पत्त्यतिचारानतिचारफलादिभेदभिन्नमर्थं भापते स व्यक्तिकर इति, स निश्चयतश्चतुर्दशपूर्वविदेव, इह च
तदा मा दाहीति त्वरित निर्गतः, अभयो निस्सरति, श्रेणिकेन भणितं-प्रदीपितं !, स भणति-आमं, त्वं किं न प्रविष्टः !, भणति-अई प्रमजिप्यामि किं ममामिना ? पश्चादनेन चिन्तितं-मा त्याक्षीदिति भणितं-न दग्धेति । श्रेणिकस्य चेहनायां पूर्वमननुयोगः गृहेऽनुयोगः, एवं विपरीते प्ररूपितेऽननुयोगः यथाभावे प्ररूपिते अनुयोगः ।
पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: भाषा आदेः स्वरुपम् प्रस्तुयते
~ 201~