________________
आगम (४०)
[भाग-२८] “आवश्यक”- मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [-], मूलं [-/गाथा-], नियुक्ति: [१३२], भाष्यं [-]
अवसेयः, यथा प्रज्ञापनायां समुदितानां जीवानामजीवानां च विचारः, तथा चोकं-"जीवपजवाणं भंते ! किं संखेजा असंखेज्जा अणंता ?, गोयमा ! नो संखेजा नो असंखेजा अणंता, एवं अजीवपज्जवाणं पुच्छा उत्तरं च दवं" अलं विस्तरेण । द्रव्येणानुयोगः प्रलेपाक्षादिना, द्रव्यस्तैरेव अक्षादिभिः प्रभूतैरिति, द्रव्ये फलकादौ द्रव्येषु प्रभूतासु निषद्यासु अवस्थितोऽनुयोगं करोतीति । एवं क्षेत्रानुयोगेऽपि क्षेत्रस्य भरतक्षेत्रादेः क्षेत्राणां जम्बूद्वीपादीनां यथा बीपसागरप्रज्ञाया| मिति, क्षेत्रेण यथा पृथिवीकायादिसंख्याव्याख्यानं, उक्तं च "बुद्दीवपमाणं, पुढविजिआणं तु पत्थयं काउं । एवं मविजमाणा हवंति लोगा असंखिज्जा ॥१॥" क्षेत्रैरनुयोगो यथा “बहुँहिं दीवसमुद्देहिं पुढविजिआणमित्यादि" क्षेत्रे तिर्य-1 ग्लोकेऽनुयोगो भरतादौ वा क्षेत्रेषु अनुयोगः अर्धतृतीयेषु द्वीपसमुद्रेषु । कालस्य अनुयोगः समयादिप्ररूपणा, कालानां & प्रभूतानां समयादीनो, कालेनानुयोगो यथा-बादरवायुकायिकानां वैक्रियशरीराण्यद्धापल्योपमस्य असंख्यभागमात्रेणापहियन्ते, कालैरनुयोगो यथा प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियन्ते प्रतिसमयापहारेण, कालेऽनुयोगो द्वितीयपौरुष्या, कालेषु अवसर्पिण्यां त्रिषु कालेषु-सुषमदुष्पमायां चरमभागे दुष्पमसुषमायां दुष्पमायां चेति, उत्सपिण्यां कालद्वये-दुष्पमसुषमायां सुषमदुष्षमायां च । वचनस्यानुयोगो यथा इत्थंभूतं एकवचनं, वचनानां द्विवचनबहुवचनानां पोडशानां वा, वचनेनानुयोगो यथा-कश्चिदाचार्यः साध्वादिभिरभ्यर्थित एकवचनेन करोति,
जीवपर्यया भवन्त ! कि संख्या असंख्येया अनन्ताः !, गौतम ! नो संख्येयाः नो असंख्येषा अनन्ता, एक्मजीवपर्यवाणा पछा उत्तरं च इष्टयं । C. जम्बूद्वीपप्रमाणं पृथ्वीजीवानां तु प्रस्थकं कृत्वा । एवं मीयमाना भवन्ति लोका असंख्येयाः ॥1॥ ३ बहुभिपिसमुः पृथ्वी जीवाना.
JABERatinintamational
InHorary on
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति:
~185