SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ आगम (४०) प्रत सूत्रांक [-] दीप अनुक्रम [-] [भाग-२८] “आवश्यक”– मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [-], मूलं [- /गाथा -], निर्युक्तिः [११५], भाष्यं [-] ॥ ८१ ॥ * आवश्यक संपराया यत्र तत् सूक्ष्मसंपरायं तच्च द्विधा विशुध्यमानकं संक्लिश्यमानकं च तत्र विशुध्यमानकं क्षपकोपशमकश्रेणिद्वयमारोहतो भवति, संक्लिश्यमानकें तूपशमश्रेणितः प्रच्यवमानस्येति, 'चः' समुच्चये इति गाथार्थः ॥ ११ ॥ द्वितीयगाथाव्याख्या 'ततश्च' सूक्ष्मसंपरायानन्तरं यथैवाख्यातं यथाख्यातं अकषायचारित्रमिति यथा ख्यातं - प्रसिद्धं सर्वस्मिन् ४ जीवलोके, तच्च छद्मस्थवीतरागस्य केवलिनश्च भवति, तत्र च छद्मस्थस्य उपशामकस्य क्षपकस्य वा, केवलिनस्तु सयोगिनोऽयोगिनो वेति शेषं निगदसिद्धं, नवरं मरणं मरः जरा च मरश्च जरामरौ तौ अविद्यमानौ यस्मिन् तदजरामर - मिति गाथार्थः ॥ ११५ ॥ तत्रैतेषां पञ्चानां चारित्राणां आद्यं चारित्रत्रयं क्षयोपशमलभ्यं चरमचारित्रद्वयं तूपशमक्षयलभ्यमेव, तत्र तत्कर्मोपशमक्रमप्रदर्शनायाह अणदंसनपुंसित्थी वैद्यकं च पुरुसवेयं च । दो दो एगन्तरिए सरिसे सरिसं उवसमेइ ।। ११६ ।। अथवा चरमचारित्रद्वयं श्रेण्यन्तर्भाविनस्तद्विनिर्गतस्य च भवति, अतः श्रेणिद्वयावसरः, तत्र उभयश्रेणिलाभे चादावुपशमश्रेणिर्भवतीत्यतस्तत्स्वरूपाभिधित्सयैवाह- अणदंस० । गाथाव्याख्या- तत्रोपशमश्रेणिप्रारम्भको भवत्यप्रमत्तसंयत एव, अन्ये तु प्रतिपादयन्ति - अविरत देश विरतप्रमत्ताप्रमत्तसंयतानामन्यतम इति, श्रेणिपरिसमाप्तौ प्रमत्ताप्रमत्तसंयतानामन्यतमो भवति, स चैवमारभते-अण रणेति दण्डकधातुः अस्याच्प्रत्ययान्तस्य अण इति भवति, शब्दार्थस्तु अणन्तीत्यणाः अणन्ति-शब्दयन्ति अविकलहेतुत्वेन असातवेद्यं नारकाद्यायुष्कं इत्यणा:- आद्याः क्रोधादयः, अथवा अनन्तानुबन्धिनः क्रोधादयः अनाः, समुदायशब्दानामवयवे वृत्तिदर्शनात् भीमसेनः सेन इति यथा, तत्रासौ प्रतिपत्ता प्रशस्तेष्वध्यवसाय Education national For Party हारिभद्रीयवृत्तिः विभागः १ ~ 172~ ॥ ८१ ॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[४०] मूलसूत्र - [०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy