________________
आगम
(४०)
ཡྻ
सूत्रांक
[-]
अनुक्रम [-]
[भाग-२८] “आवश्यक - मूलसूत्र - १/१ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [ - ], मूलं [ - / गाथा - ],
निर्युक्ति: [ ७९ ], भाष्यं [-]
" च ॥ १ ॥ इत्यादि, तथा " सेसेसुवि अज्झयणेसु, होइ एसेव निज्जुती " चतुर्विंशतिस्तवादिष्विति वक्ष्यति, अतो महार्थत्वात् कथञ्चित् शास्त्रान्तरस्याच्चास्यारम्भे मङ्गलोपन्यासो युक्त एवेति, आह- सामायिकान्वाख्यानेऽधिकृते को हि दशवेकालिकादीनां प्रस्ताव इति, अत्रोच्यते, उपोद्घातसामान्यात् यतस्तेशमपि प्रायः खस्वयमेवोपोद्घात इति, अलं प्रपञ्चेन तच्चेदं मङ्गलम् -
तित्थयरे भगवंते, अणुत्तरपरकमे अभियनाणी । तिष्णे सुगइगइगए, सिद्धिपहपदेसए वंदे ॥ ८० ॥
गमनिका - तीर्थकरणशीलास्तीर्थकराः तान् वन्द इति योगः, तत्र 'द प्लवनतरणयोः' इत्यस्य 'पातुविचिसिचिरिचिभ्यस्थग् ( उणादौ पा० २-१७२ ) इति । थक्प्रत्ययेऽनुबन्धलोपे च कृते ' ऋत इद्वा धातोः (पा० ७-१-१००) इति इवे रपरस्त्रे हलि चेति दीर्घत्वे परगमे च तीर्थ इति स्थिते ' डुकृञ् करणे ' इत्यस्य ' चरेष्टः' (पा० ३-२-१६ ) इत्यस्मात् सूत्रात् प्रत्ययाधिकारेऽनुवर्त्तमाने 'कृञो हेतुताच्छील्यानुलोम्येषु' ( पा० ३-२-२० ) इतिटप्रत्ययेऽनुबन्धलोपे च कृते गुणे रपरत्वे परगमने च तीर्थकर इति भवति । तत्र तीर्यतेऽनेनेति तीर्थ, तच्च नामादिचतुर्भेदभिन्नं तत्र नोआगमतो द्रव्यतीर्थ नद्यादीनां समो भूभागोऽनपायश्च तत्सिद्धौ तरिता तरणं तरणीयं च सिद्धं पुरुषबाहू हुपनद्यादि, द्रव्यता चास्येत्थं तीर्णस्यापि पुनस्तरणीयभावात्, अनेकान्तिकत्वात्, स्नानविवक्षायां च बाह्यमलापनयनात् आन्तरस्य
३ शेषेष्वपि अध्ययनेषु भवत्येवैव नियुक्तिः (नियुक्ती) २ अनायन्तिकत्वात् * यपि + स्याच्छास्त्राप्रसङ्गेन प्रत्ययो ऽनु०
Education intemational
For Parts Only
wwwjanbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४०] मूलसूत्र -[०१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्तिः मङ्गलार्थे तिर्थकर आदीनाम् वन्दनं एवं तिर्थकरादि शब्दानाम् व्याख्या:
~ 127 ~