SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आगम (४०) [भाग-२८] “आवश्यक”-मूलसूत्र-१/१ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [-], मूलं - /गाथा-], नियुक्ति: [७०], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४०] मूलसूत्र-[१] आवश्यक मूलं एवं हरिभद्रसूरिरचिता वृत्ति: यतो गतः, एवमूर्ध्वमपि व्यत्ययो वक्तव्य इति । अन्ये तु शक्तित एव रुचकवरादिद्वीपमनयोर्गोचरतया ब्याचक्षत इति । तथा आस्यो-दंष्ट्राः तासु विषमेपामस्तीति आसीविषाः, ते च द्विप्रकारा भवन्ति-जातितः कर्मतश्च, तत्र जातितो वृश्चिकमण्डूकोरगमनुष्यजातयः, कर्मतस्तु तिर्यग्योनयः मनुष्या देवाश्चासहस्रारादिति, एते हि तपश्चरणानुष्ठानतोऽन्यतो वा गुणतः खल्वाप्तीविषा भवन्ति, देवा । अपि तच्छक्तियुक्ता भवन्ति, शापप्रदानेनैव व्यापादयन्तीत्यर्थः । तथा केवलिनश्च प्रसिद्धा एव । तथा मनोज्ञानिनो विपुलमनःपर्यायज्ञानिनः परिगृह्यन्ते । पूर्वाणि धारयन्तीति पूर्वधराः, दशचतुदेशपूर्वविदः । अशोकाद्यष्टमहापातिहार्यादिरूपां पूजामर्हन्तीत्यर्हन्तः तीर्थकरा इत्यर्थः । 'चक्रवर्तिनः चतुर्दशरत्नाधिपाः पटूखण्डभरतेश्वराः। 'बलदेवाः ' प्रसिद्धा एव । वासुदेवाः' सप्तरत्नाधिपा अर्धभरतप्रभव इत्यर्थः । एते हि सर्व एव चारणादयो लब्धिविशेषा वर्तन्ते इति गाथार्थः ॥ ७० ॥ इह वासुदेवत्वं चक्रवर्तित्वं तीर्थकरत्वं च ऋद्धयः प्रतिपादिताः, तत्र तदतिशयप्रतिपादनायेदं गाथापश्चकं जगाद नियुक्तिकारा सोलस रायसहस्सा सब्वबलेणं तु संकलनिबद्धं । अंछंति वासुदेवं अगडतडमी ठिय संतं ॥७१॥ घित्तूण संकलं सो वामगहत्येण अंछमाणाणं । झुजिज व लिंपिज्ज व महुमहणं ते न चायति ॥७२॥ दोसोला बत्तीसा, सव्वषलेणं तु संकलनिबद्ध । अंछति चकवडिं, अगडतडमी' ठियं संतं ॥७३॥ लिब्धितो ये आसीविषलनिमन्तः पोजितियंगाययस्ते, देवाः पर्याप्तावस्थायां शापादिना व्यापादने समयो भपि देवभवाल्ययिकस्कान तद्धिवक्षितमिति अपर्याप्तावस्थायामवैतबपदेशो देवानाम्, *मेषामिति + 04 सह1 0ठानतो बा.१ अपि च लंमि तसंमि. T अरिहंत-चक्रवर्ती-वासुदेव-बलदेव आदिनाम् अतिशय: दर्शयते ~105
SR No.035028
Book TitleSavruttik Aagam Sootraani 1 Part 28 Aavashyak Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_aavashyak
File Size97 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy