________________
आगम
(१८)
प्रत
सूत्रांक
[१२१]
दीप
अनुक्रम [२४०]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [१२१]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
| अथ त्रयोदशं-नन्दाचम्पाप्रविभक्तिनाम नाव्यं, नन्दा - नन्दाभिधानाः शाश्वत्यः पुष्करिण्यस्तासु देवानां जलक्रीडाजल| जकुसुमाव चयनमन्तरणमाप्लवनमित्याद्यभिनयनं नन्दाप्रविभक्ति तथा चम्पानाम महाराजधानी उपलक्षणं चैतत् तेन | कोशलाविशालादिराजधानीपरिग्रहः तासां च परिखासौधप्रासादचतुष्पदाद्यभिनयनं चम्पाप्रविभक्ति १३, अथ चतुर्दशं| मत्स्याण्डकमकराण्ड कजारमारप्रविभक्तिनाम नाव्यं, एतत्तु पूर्व व्याख्यातमेव, अत्रैषां चतुर्णामभिनयनं पृथगुक्तं तत्र तु व्यामिश्रितमिति भेदः १४, अथ पञ्चदशं कखगघङ इति कवर्गप्रविभक्तिकं तत्र ककाराकारेणाभिनयदर्शनं ककार| प्रविभक्ति, कोऽर्थः १ - तथा नाम ते नदा नृत्यन्ति यथा ककाराकारोऽभिव्यज्यते एवं खकारगकारघ कारडकारप्रविभक्तयो वाच्याः, एतच्च कवर्गप्रविभक्तिकं नाव्यं, यद्यपि लिपीनां वैचित्र्येण ककाराद्याकारवैचित्र्यात् प्रस्तुतनाट्यस्याप्यनैयत्य| प्रसङ्गस्तथापि कवर्गीय जातीयत्वेन विशेषणान्नात्र दोषः, एवं चकारप्रविभक्तिजातीयमित्यादि बोध्यं, अथवा ककारश|ब्दोद्घट्टनेन चचपुटचाचपुटादौ कंकांकिकीं इत्यादिवाचिकाभिनयस्य प्रवृत्त्या नाव्यं ककारप्रविभक्ति, एवं कादिङान्तानां शब्दानामादातृत्वेन ककारखकारगुकारधकार ङकारप्रविभक्तिकं नाट्यं, एवं चवर्गप्रविभत्यादिष्वपि वाच्यं १५, | अथ पोडशं-चछजझञप्रविभक्तिकं १६, अथ सप्तदर्श-टठडढणप्रविभक्तिकं १७, अथाष्टादशं तथदधनप्रविभक्तिकं १८, | अथैकोनविंशतितमं - पफबभमप्रविभक्तिकं १९ अथ विंशतितमं - अशोकाम्र जम्बूको शम्बपल्लवप्रविभक्तिकं अशोकादयोवृक्षविशेषास्तेषां पलवा- नवकिसलयानि ततस्ते यथा मन्दमारुतेरिता नृत्यन्ति तदभिनयात्मकं पल्लवप्रविभक्तिकं नाम
For P&Praise City
~79~