________________
आगम
(१८)
प्रत
सूत्रांक [११९]
+
गाथा:
दीप
अनुक्रम
[२३६
-२३८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
वक्षस्कार [५],
मूलं [११९] + गाथा
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीपू. ६९
| सुरिन्द' इत्यादि, एवं- धरणेन्द्रन्यायेनासुरेन्द्रौ - चमरचलीन्द्रौ ताभ्यां वर्जितानां भवनवासीन्द्राणां भूतानन्दादीनां वक्तव्यं बोध्यं, नवरं असुराणां - असुरकुमाराणां ओघस्वरा घण्टा नागानां नागकुमाराणां मेघस्वरा घण्टा सुपर्णानां - गरुडकुमाराणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिकुमाराणां मंजुघोषा उदधिकुमाराणां | सुस्वरा द्वीपकुमाराणां मधुरस्वरा वायुकुमाराणां नन्दिस्वरा स्तनितकुमाराणां नन्दिघोषा, एषामेवोक्तानुक्तसामानिकसंङ्ग्रहार्थं गाथामाह-चतुष्षष्टिश्चमरेन्द्रस्य षष्टिर्बलीन्द्रस्य खलुर्निश्चये पट् च सहस्राणि असुरवर्णानां धरणेन्द्रादीनामष्टादशभवनवासीन्द्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भिन्नक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भवन्ति, दाक्षिणात्यानां चमरेन्द्रवर्जितानां भवनपतीन्द्राणां भद्रसेनः पदात्यनीकाधिपतिः औत्तराहाणां बलिवर्जितानां दक्षो नाम्ना पदातिपतिः यच्चात्र घण्टादिकं पूर्व स्वस्वसूत्रे उक्तमप्युक्तं तत्समुदायवाक्ये सर्वसङ्ग्रहार्थमिति । अथ व्यन्तरेन्द्रज्योतिष्केन्द्राः - 'वाणमंतर' इत्यादि, व्यन्तरेन्द्रा ज्योतिष्केन्द्राश्च नेतव्याः- शिष्यबुद्धिं प्रापणीयाः एवमेव, यथा भवनवासिनस्तथैवेत्यर्थः, नवरं चत्वारि सामानिकानां सहस्राणि चतस्रोऽग्रमहिष्यः षोडश आत्मरक्षकसहस्रा विमानानि योजन| सहस्रमायामविष्कम्भाभ्यां महेन्द्रध्वजः पञ्चविंशत्यधिकयोजनशतं घण्टाश्च दाक्षिणात्यानां मनुस्वरा औत्तराहाणां मघो |षाः, पदात्यनीकाधिपतयो विमानकारिणश्च आभियोगिका देवाः, कोऽर्थः १-स्वाम्यादिष्टा हि आभियोगिका देवा घण्टावादनादिकर्मणि विमानविकुर्वणे च प्रवर्त्तन्ते न पुनर्हरिनिगमैपिवत्पालकवञ्च निर्दिष्टनामका इति, 'व्याख्या विशेषप्रति
For P&Praise City
~63~