SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ------------------- -------------------------- मूलं [११८] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [११८] गाथा: 'तेणं कालेण'मित्यादि, तस्मिन् काले सम्भवजिनजन्मके तस्मिन् समये-दिकुमारीकृत्यानन्तरीये न तु शकाग-131 IS मनानन्तरीये सर्वेषामिन्द्राणां जिनकल्याणकेषु युगपदेव समागमनारम्भस्य जायमानत्वात्, यत्तु सूत्रे शक्रागमना नन्तरीयमीशानेन्द्रागमनमुक्तं तत्क्रमेणैव सूत्रबन्धस्य सम्भवात् , ईशानो देवेन्द्रो देवराजा शूलपाणिर्नुपभवाहनः सुरेन्द्र |उत्तरा“लोकाधिपतिः, मेरोरुत्तरतोऽस्यैवाधिपत्यात् , अष्टाविंशतिविमानावासशतसहस्राधिपतिः अरजांसि-निर्मलानि || अम्बरवस्त्राणि-स्वच्छतयाऽऽकाशकल्पानि वसनानि धरति यः स तथा, एवं यथा शक्रः सौधर्मेन्द्रस्तथाऽयमपि, 18 इदमत्र नानात्व-विशेषः महाघोषा घण्टा लघुपराक्रमनामा पदात्यनीकाधिपतिः पुष्पकनामा विमानकारी दक्षिणा ॥ निर्याणभूमिः उत्सरपीरस्त्यो रतिकरपर्वतः मन्दरे समवसृतः-समागतः यावत्पदात् 'भगवन्तं तिरथयरं तिक्खुत्तो आया-1 | हिणपयाहिणं करेइ २ ता वन्दइ णमंसइ वंदित्ता णमंसित्ता णच्चासण्णे णाइदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे' इति, पर्युपास्ते । अथातिदेशेनावशिष्टानां सनत्कुमारादीन्द्राणां वक्तव्यमाह-एवं अवसिट्टाविर इत्यादि, एवं-सौधर्मेशानेन्द्ररीत्या अवशिष्टा अपि इन्द्रा वैमानिकानां भणितव्याः यावदच्युतेन्द्रः- एकादशद्वादशकल्पाधिपतिरिति, अत्र यो विशेषस्तमाह-इदं नानात्वं-भेदः, चतुरशीतिः सहस्राणि शक्रस्य अशीतिः सहस्राणीशाने न्द्रस्य द्विसप्ततिः सहस्राणि सनत्कुमारेन्द्रस्य एवं सप्ततिर्माहेन्द्रस्य चः समुच्चये षष्टिब्रह्मेन्द्रस्य चः प्राग्वत् पञ्चाशल्लान्तिकेन्द्रस्य चत्वारिंशच्छुक्रेद्रस्य त्रिंशत्सहस्रारेन्द्रस्य विंशतिरानतप्राणतकल्पद्विकेन्द्रस्य दशारणाच्युतकल्पविकेन्द्रस्य, दीप अनुक्रम [२३०-२३५] Recene ~57
SR No.035025
Book TitleSavruttik Aagam Sootraani 1 Part 25 Jambudwippragyapti Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages344
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy