________________
आगम (१८)
"जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], -------------------
--------------------- मल [१७२-१७३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
1 इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जघन्यपदे सर्वस्तोके स्थाने वा उत्कृष्टपदे सर्वोत्कृष्ट स्थाने वा विचार्यमाणे इति शेषः
कियन्तस्तीर्थकराः सर्वाग्रेण-सर्वसंख्यया केवलिदृष्टमात्रया इत्यर्थः प्रज्ञप्ताः, गौतम! जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या विभागीकृते दक्षिणोत्तरदिग्भागयोरेकैकस्य सद्भावात् द्वौ अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौ जिनेन्द्री मिलिताश्चत्वारः, भरतैरावतयोस्तु एकान्तसुषमादावभाव एव, उत्कृष्टपदे चतुस्त्रिंशत्तीर्थकराः सर्वाग्रेण प्रज्ञप्ताः, तथाहि-महाविदेहे प्रतिविजयं भरतैरावतयोश्चैकैकस्य सम्भव इति । सर्वमीलने चतुस्त्रिंशत्, एषां हि भगवतां स्वस्वक्षेत्रवर्तिभिश्चक्रिभिरर्द्धचक्रिभिश्च सहानवस्थानलक्षणविरोधासम्भवात्,
एतच्च विहरमानजिनापेक्षया बोय, न तु जन्मापेक्षया, तच्चिन्तायां तूत्कृष्टपदे चतुर्विंशतस्तीर्थकराणामसम्भवादिति ।। IS अथात्रैव जघन्योत्कृष्टपदाभ्यां चक्रिणः पृच्छति-'जम्बुद्दीवे'इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे |
वा उत्कृष्टपदे वा चक्रवर्तिनः प्रज्ञप्ता:, भगवानाह-गौतम! जघन्यपदे चत्वारः उपपत्तिस्तु तीर्थराणामिव, उत्कृ-II IS टपदे त्रिंशश्चक्रवर्तिनः सर्वाग्रेण प्रज्ञप्ता, कथमिति चेत्, उच्यते, द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयच
तुष्कवर्जितविजयसरकाऽष्टाविंशतिः भरतैरावतयोस्तु द्वाविति पूर्वापरमीलितात्रिंशत्, यदा महाविदेहे उस्कृष्टपदेडधाविंशतिश्चक्रिणः प्राप्यन्ते तदा नियमाच्चतुर्णामर्द्धचक्रिणां सम्भवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसम्भवात् , चक्रिणामड़चक्रिणां च सहानवस्थानलक्षणविरोधादिति, अथात्र तथैव बलदेवानर्द्धचक्रिणश्चाह-बलदेवा तत्तिा ' इत्यादि, बलदेवा
~319~