SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], --------------- ----------------------- मूलं [१६७-१६९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रशयति एतेसि 'मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्दिकाः कतरे च चकारोऽत्र गम्यः सर्वाल्पर्धिकाः १, भगवानाह-गौतम! तारारूपेभ्यो नक्षत्राणि महर्दिकानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः डेश्यः सूर्या महर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्धिकास्तारारूपाः सर्वमहर्द्धि काश्चन्द्राः, इयमत्र भावना-गतिविचारणायां ये येभ्यः शीघा उक्तास्ते तेभ्यः ऋद्धिविचारणायामुत्क्रमतो महर्द्धि का ज्ञेया इति । अथ द्वादशIS द्वारप्रश्नमाह-'जम्बुद्दीये ण'मित्यादि, जम्बूद्वीपे भदन्त! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवाISना-गौतम! द्विविध-व्याघातिक नियोंघातिकं च, तत्र व्याघात:-पर्वतादिस्खलनं तत्र भवं व्याघातिकं, निया पातिक व्यापातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यन्नियाघातिक तज्जघन्यतः पञ्चधनुःशतानि उत्कृष्टतो वे गव्यूते, ॥ एतच जगत्स्वाभाव्यादेवावगन्तव्यं, यच व्याघातिक तज्जघन्यतो वे योजनशते षषष्ट्यधिके, एतच्च निषधकूटादिकम-18॥ पापेक्ष्य वेदितव्यं, तथाहि-निषधपर्वतः स्वभावतोऽप्युञ्चेश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि | तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसमश्रेणिप्रदेशे तथाजगत्स्वाभाच्यादष्टावष्टौं योजनान्यबाधया कृत्वा ताराविमानानि परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरं द्वे योजनशते षट्पश्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया JaERY ~309~
SR No.035025
Book TitleSavruttik Aagam Sootraani 1 Part 25 Jambudwippragyapti Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages344
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size80 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy