________________
आगम
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [७], ---------------------- -------------------------- मूलं [१६६] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
आलीनं-सुश्लिष्टं निर्भरभरकेशत्वात् प्रमाणयुक्त-चरणावधि लम्बमानत्वात् वर्तितं-वर्तुलं सुजाता-लक्षणप्रशस्ता रमराणीया-मनोहरा वाला यस्य तत् एवंविधं गात्रपरिपुञ्छनं-पुच्छं येषां ते तथा तेषां, तिर्यचो हि पुच्छेनैव गात्रं प्रमाणयन्तीति, तथा उपचिता-मांसलाः परिपूर्णाः-पूर्णावयवास्तथा कूर्मवदुन्नताश्चरणास्तैर्ल घुलाघवोपेतः-शीघ्रतर इत्यर्थः विक्रमः-पादविक्षेपो येषां ते तथा तेषां, तथा अङ्करत्नमयनखानां तवणिज्जजीहाणमित्यादि नव पदानि प्राग्वत् , महता-बहुव्यापिना गम्भीर:-अतिमन्द्रो गुलुगुलायितरवो-हितशब्दस्तेन मधुरेण मनोहरेण अम्बरं पूरयन्ति दिशश्च शोभयन्तीत्यादि प्राग्वत् । अथ तृतीयवाहावाहकानाह-'चन्दबिमाणस्स ण'मित्यादि, चन्द्रविमानस्य पश्चिमायांजिगमिपितदिशः पृष्ठभागे वृषभरूपधारिणां देवानां चत्वारि देवसहस्राणि पश्चिमां बाहां परिवहन्तीत्यर्थः, श्वेताना सुभगानामित्यादि प्राग्वत्, चलचपलं-इतस्ततो दोलायमानत्वेनास्थिरत्वादतिचपलं ककुदं-अंसकूट तेन शालिनाशोभायमानानां तथा घनवद्-अयोधनवनिचिताना-निर्भरभृतशरीराणामत एव सुबद्धाना-अश्लथानां लक्षणोन्नतानाप्रशस्तलक्षणानां तथा ईषदानतं-किञ्चिन्ननभावमुपागतं वृषभौष्ठ-वृषभौ-प्रधानी लक्षणोपेतत्वेनौष्ठौ यत्र तत्, समर्थ
विशेषणेन विशेष्यं लभ्यत इति मुखं येषां ते तथा, ततः पूर्ववत् पदचतुष्टयकर्मधारयस्तेषां, तथा चंक्रमितं-कुटिल18 गमनं ललितं-बिलासबद्गमनं पुलितं-गतिविशेषः स याफाशक्रमणरूपः एषरूपा चलचपला-अत्यन्तचपला गर्विता H गतिर्येषां ते तथा सन्नतपार्थानां अधोऽधःपार्थचोरवनतत्वात् तथा सङ्गतपार्थाना-देहप्रमाणोचितपाश्चानां तथा
Sasasacassage
JaEcim
~303