________________
आगम
(१८)
वक्षस्कार [७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
मूलं [ १६१ ] + गाथा:
श्रीजम्बूद्वीपशातिचन्द्री या वृत्तिः
॥५१२॥
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः)
Ja Ecutor in
| पुष्योऽश्लेषा च अस्यां पञ्चानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, करणं चात्र प्रागुक्तं, तथा प्रोष्ठपद भदन्त ! अमावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम! द्वे नक्षत्रे युंक्तः, तद्यथा - पूर्वफल्गुनी उत्तरफल्गुनी चशब्दान्मघा ग्राह्या, अस्यास्तु भाद्रपदपूर्णिमावर्चिशतभिषको व्यवहारतोऽपि करणरीत्या निश्चयतश्चार्वाग्गणने पंचदशत्वात्, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनाच करणं च पूर्ववत्, | तथा आश्वयुजीममावास्यां कति नक्षत्राणि युञ्जन्ति ?, गौतम ! द्वे नक्षत्रे युक्तः, तद्यथा - हस्तश्चित्रा च इदमपि व्यवहारतः निश्चयतस्तु आश्वयुजीममावास्यां त्रीणि नक्षत्राणि समापयन्ति, तद्यथा-उत्तरफल्गुनी हस्तश्चित्रा च यच पूर्वमाश्वयुज्यां पूर्णिमायामुत्तरभद्रपदा प्रागुक्तहेतोर्न विवक्षिता परं निश्चयतः सा आयातीति तस्याः पंचदशत्वादुत्तरफल्गुन्यत्र गृहीता, आसां च पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात् भावना प्राग्वत्, तथा | कार्तिक अमावास्यां द्वे नक्षत्रे युंक्तः, तद्यथा-स्वातिर्विशाखा च एतदपि व्यवहारतः निश्चयतस्तु त्रीणि स्वातिविशाखा चित्रा च, अस्यामपि पूर्णिमायां अश्विन्यनुरोधेन चित्रोक्ता, आसां पंचानामपि युगभाविनीनां नक्षत्रत्रयाणां | मध्येऽन्यतरेण समापनादिति, तथा मार्गशीषां त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलश्च, एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि अमावास्या परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्येष्ठा च आसां पंचानां युगभाविनीनां नक्षत्रत्रयाणां मध्येऽन्यतरेण समापनात्, तथा पौषीममावास्यां द्वे नक्षत्रे युक्त:- पूर्वा
For P&Pase Cnly
~270~
७वक्षस्कारे कुलादिपूर्णिमामा
वास्या: सू. १६१
॥५१२॥