SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ------------------- -------------------------- मूलं [१५१] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति: प्रत सूत्रांक [१५१] See गाथा: सम्यगू वर्षति-करोति मेघ इति तमाहुः-संवत्सरं कर्माख्यं । अथ सौर:-'पुढविइत्यादि, पृथिव्या उदकस्य च तथा पुष्पाणां फलानां च रसमादित्यः-आदित्यसंवत्सरो ददाति, तथा अल्पेनापि-स्तोकेनापि वर्षेण-वृध्या शस्य निष्पद्यतेअन्तर्भूतण्यर्थत्वात् शस्यं निष्पादयति, किमुक्तं भवति?-यस्मिन् संवत्सरे पृथिवी तथाविधोदकसम्पर्कादतीव सरसा || भवति उदकमपि परिणामसुन्दररसोपेतं परिणमति पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-आम्रफलादीनां । रसः प्रचुरो भवति, स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्यक् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षय उपदिशन्ति । अथाभिवर्द्धित:-'आइच'इत्यादि, यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा अतीवतप्ताः परिणमन्ति, यश्च | सर्वाण्यपि निम्नस्थानानि स्थलानि च जलेन पूरयति तं संवत्सरं जानीहि यथा तं संवत्सरमभिवर्द्धितमाहुः पूर्वर्षय ६इति । सम्प्रति शनैश्चरसंवत्सरप्रश्नमाह-सणिच्छर'इत्यादि, शनैश्चरसंवत्सरो भदन्त ! कतिविधः प्रज्ञप्तः?, गौतम! १ 18 अष्टाविंशतिविधः प्रज्ञप्तः, तद्यथा-अभिजिच्छनैश्चरसंवत्सरः श्रवणशनैश्चरसंवत्सरः धनिष्ठाशनैश्चरसंवत्सरः शतभिप-1 18| क्शनैश्चरसंवत्सरः पूर्वभद्रपदाश०सं० उत्तरभद्रपदाशनैश्चरसंवत्सरः रेवतीशनैश्चरसं० अश्विनीशनैश्चरसंवत्सरः भरणी-18 शनैश्चरसंवत्सरः कृत्तिकाशनैश्चरसंवत्सरः रोहिणीश०सं० यावत्पदात् मृगशिरःशनैश्चरसंवत्सर इत्यादि ग्राह्य, अन्ते चोत्तराषाढाशनैश्चरसंवत्सरः, तत्र यस्मिन् संवत्सरे अभिजिता नक्षत्रेण सह शनैश्चरो योगमुपादत्ते सोऽभिजिच्छनैश्वरसंवत्सरः श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः, एवं सर्वत्र भावनीयं, अथवा शनै 2909200amarapasa990seases Recen दीप अनुक्रम [२७८-२८४] ~225
SR No.035025
Book TitleSavruttik Aagam Sootraani 1 Part 25 Jambudwippragyapti Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages344
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size80 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy