________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्तिः )
वक्षस्कार [७],----------------
---------------------- मलं [१२७-१३०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [१२७-१३०
श्रीजम्बू-१ तमेतत् चतसृणामङ्गुलीनामपान्तरालानि त्रीणीति, एकैकं मण्डलान्तरालं च द्वियोजनाप्रमाण, ततस्त्र्यशीत्यधिक शतं वृक्षस्कारे द्वीपशा-द्विकेन गुण्यते, जातानि त्रीणि शतानि पट्पष्ट यधिकानि ३६६, पूर्वोक्तं च चतुश्चत्वारिंशं शतमत्र प्रक्षिप्यते, ततो।। न्तिचन्द्री
लादि मू. जातानि पश्चशतानि दशोत्तराणि योजनानि अष्टचत्वारिंशदेकषष्टिभागा योजनस्य, अनेन च मण्डलक्षेत्रस्य प्रमाणम-ISI या चिः
भिहितं, मण्डलक्षेत्रं नाम सूर्यमण्डलैः सर्वाभ्यन्तरादिभिः सर्वबाह्यपर्यवसानैव्याप्तमाकाशं, तच्चक्रवालविष्कम्भतोऽપાછા
वसेयम्। उक्तं मण्डलक्षेत्रद्वारम् , अथ मण्डलान्तरद्वारम्-'सूरमंडल' इत्यादि, भगवन् ! सूर्यमण्डलस्य सूर्यमण्डलस्य च कियदवाधया-अव्यवधानेनान्तरं प्रज्ञप्तम् !, गौतम ! द्वे योजने अबाधया अन्तरं प्रज्ञप्तम् , अन्तरशब्देन च विशेषोऽप्युच्यते इति तन्निवृत्त्यर्थमबाधयेत्युक्तं, कोऽर्थः-पूर्वस्मादपरं मण्डलं कियद्दूरे इत्यर्थः, अत्र यथा योजनद्वयमुपपद्यते तथाऽनन्तरमेव मण्डलसङ्ख्याद्वारे दर्शितम् । गतं मण्डलान्तरद्वारं, अथ बिम्बायामविष्कम्भादिद्वारम्-'सूरम-18|
डले ण'मित्यादि, सूर्यमण्डलं णमिति प्राग्वत् भगवन् ! कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण कियद्वाहत्येन-18 18 उच्चत्वेन प्रज्ञप्तं ?, गौतम ! अष्टचत्वारिंशदागान् योजनस्यायामविष्कम्भाभ्यां प्रज्ञप्तं, अयमर्थः-एकयोजनस्पैकष-18 |ष्टिभागाः कल्प्यन्ते तद्रूपा येऽष्टचत्वारिंशद्भागास्तावत्प्रमाणावस्यायामविष्कम्भावित्यर्थः, तत्रिगुणं सविशेष-सा-18 धिकं परिक्षेपेण, अष्टचत्वारिंशत्रिगुणिता द्वे योजने द्वाविंशतिरेकषष्टिभागा अधिका योजनस्येत्यर्थः, चतुर्विंशतिरे
दीप अनुक्रम [२५२-२५५]]
॥४३५॥
~116