________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्ति:)
वक्षस्कार [3], ------------------------------------------------------ मुलं [४५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत सूत्रांक [४५]
Reseaee
गाथा:
अध्यात्म तत्र भव आध्यात्मिकः आत्मविषय इत्यर्थः, सङ्कल्पश्च द्विधा-ध्यानात्मकः चिन्तात्मकच, तत्र आद्यः स्थिराध्यवसायलक्षणस्तथाविधदृढसंहननादिगुणोपेतानां द्वितीयश्चलाध्यवसायलक्षणस्तदितरेषामिति, तयोर्मध्येऽयं चिन्तित:चिन्तारूपश्चेतसोऽनवस्थितत्वात्, स चानभिलापात्मकोऽपि स्यादित्यत आह-प्रार्थितः-प्रार्थनाविषयः, अयं मम मनोरथः फलेग्रहियादित्यभिलाषात्मक इत्यर्थः, मनोगतो-मनस्येव यो गतो न बहिर्वचनेन प्रकाशित इति, सङ्कल्पः समुदपद्यत, तमेवाह-उत्पन्नः खलु:-निश्चये भो इत्यामन्त्रणे विचाराभिमुख्यकरणाय स्वात्मन एव, तेनेह मागधकुमारेति योज्य, जम्बूद्वीपे द्वीपे भरते वर्षे भरतो नाम राजा चातुरन्तचक्रवर्ती तत्-तस्माज्जीतमेतत् अतीतप्रत्युत्पन्नानागतानां 'मागधतीर्थकुमाराणा'मिति मागधतीर्थस्याधिपतिः कुमारो मागधतीर्थकुमारः मध्यपदलोपेन समासः,131 |कुमारपदवाच्यत्वं चास्य नागकुमारजातीयत्वात् , तन्नामकानां देवानां राज्ञां-वरदेवानां उपस्थानिक-भाभृतं कर्तु।। || सद् गच्छामि णमिति प्राग्वत् अहमपि भरतस्य राज्ञ उपस्थानिकं करोमि, इतिकृत्वा-इति मनसिकृत्य एवं-वक्ष्य-17 माणं निजर्द्धिसारं संप्रेक्षते-पर्यालोचयति, ततः किं करोतीत्याह-संपेहेत्ता' इत्यादि, सम्प्रेक्ष्य च हारादीनि प्रतीतानि | चकारः सर्वत्र समुच्चये शरं च भरतस्य प्रत्यर्पणाय नामाहतं नामाहतामिति निर्देशे कर्तव्ये लाघवार्थमित्थमुपन्यासः यद्वा नाम आहत-लक्षणया लिखितं यत्र स तथा तं मागधतीर्थोदकं च राज्याभिषेकोपयोगि एतानि गृह्णा-13 | तीति सम्बन्धः, तदनन्तरं किं विदधे इत्याह-'गिहिचा ताएं उक्किटाए इत्यादि, गृहीत्वा च तया दिव्यया देव-18
दीप
अनुक्रम [६२-६७]]
Similentil
~60~