SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ཙྪཱ + ཛ སྶ [५६-६०] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [3], मूलं [४३] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः दारभ्य प्रदक्षिणं करोति, त्रिः प्रदक्षिणयतीत्यर्थः, तथा कृत्वा च 'करतल'ति अत्र यावत्पदात् 'करयल परिग्गहिअं दसणहं सिरसावतं मत्थए अंजलि'ति, अत्र व्याख्या करतलाभ्यां परिगृहीतः - आत्तस्तं दश करद्वयसम्बन्धिनो नखाः समुदिता यत्र तं शिरसि मस्तके आवर्त्तः- आवर्त्तनं प्रादक्षिण्येन परिभ्रमणं यस्य तं शिरसाऽप्राप्तमित्यन्ये मस्तके अञ्जलिं - मुकुलितकमलाकारकरद्वयरूपं कृत्वा चक्ररलस्य प्रणामं करोति, कृत्वा च आयुधगृहशालातः प्रतिनिष्क्रामति- निर्याति, प्रतिनिष्क्रम्य च यत्रैव बाहिरिका - आभ्यन्तरिकापेक्षया वाह्या उपस्थानशाला- आस्थानमण्डपो यंत्रेव च भरतो राजा तत्रैवोपागच्छति, उपागत्य च 'करतल जाव'ति पूर्ववत् जयेन - परानभिभवनीयत्वरूपेण विजयेन परेषामसहमानानामभिभावकत्वरूपेण वर्द्धयति-जयंविजयाभ्यां त्वं वर्द्धयस्वेत्याशिषं प्रयुङ्क्ते वर्द्धयित्वा चैवमवादीत् किं तदित्याह'एवं खलु' इत्यादि, इत्थमेव यदुच्यते मया, न च विपर्ययादिना यदन्यथा भवति, यद्देवानुप्रियाणां - राजपादानां आयुधगृहशालायां दिव्यं चक्ररनं समुत्पन्नं तदेव तत् णमिति प्राग्वत् देवानुप्रियाणां प्रियार्थतायै प्रीत्यर्थं प्रियं इष्टं निवे| दयामः 'एतत्' प्रियनिवेदनं प्रियं 'मे' भवतां भवतु, ततो भरतः किं चक्रे इत्याह- 'तते ण' मित्यादि, ततः स भरतो राजा तस्यायुधगृहि कंस्य समीपे एनमर्थं श्रुत्वा आकर्ण्य कर्णाभ्यां निशम्य अवधार्य हृदयेन तुष्टो यावत्सौमनस्थितः प्राग्वत्, प्रमोदातिरेकाद्ये ये भावा भरतस्य संवृत्तास्तान् विशेषणद्वारेणाह -- विकसित कमलवन्नयनवदने यस्य स तथा प्रचलितानि-चक्ररलोत्पत्तिश्रवणजनितसम्भ्रमा तिरेकात् कम्पितानि वरकटके प्रधानवलये त्रुटि के बाहरक्षको १ जयः सामान्यत उपवादिविषयः विजयः स एव विशिष्टतरः परममुद्भवः (इवि ही वृती) श्रीजम्ब. ३२ ५। Fur Fate & Pune Cy ~28~
SR No.035024
Book TitleSavruttik Aagam Sootraani 1 Part 24 Jambudwippragyapti Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy