SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (१८) ུཊྛཡྻོཝཱ ཡྻཱ + ཊྛལླཱ ཡྻ अनुक्रम “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [३], मूलं [ ६४ ] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८] उपांगसूत्र- [७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः पदद्वयस्य कर्मधारयः, 'सिङ्गारागारे त्यत्र यावत्पदात् सिङ्गारागारचारुवेसं संगयगयहसि अभणिअचिठ्ठिअविलाससल| लिअसंलावनिउण इति संग्रहः शृङ्गारस्य- प्रथमरसस्यागारं - गृहमिव चारुर्वेषो यस्याः सा तथा तां सङ्गता - उचिता गतहसितभणितचेष्टितविलासा यस्याः सा तथा तत्र गतं गमनं हसितं - स्मितं भणितं - वाणी चेष्टितं च-अपुरुषचेष्टा विलासो-नेत्रचेष्टा तथा सह ललितेन प्रसन्नतया ये संलापा:- परस्परभाषणलक्षणास्तेषु निपुणा या सा तथा, तथा युक्ताः| सङ्गताः ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा तथा ततः पदत्रयकर्मधारयः तां, अमरबधूनां सुरूपं-सौन्दर्य रूपेणानुहरन्तीं - अनुकुर्वतीं भद्रे - कल्याणकारिणि यौवने वर्त्तमानां, शेषं तु प्राग्योजितार्थं, 'गिण्हित्ता' इत्यादि, गृहीत्वा तयोत्कृष्टया त्वरितया यावदुद्भूतया विद्याधरगत्या यत्रैव भरतो राजा तत्रैवोपागच्छतः, उपागत्य चान्तरिक्षप्रतिपन्नौ सकिंकिणीकानि यावत्पदात् पश्ञ्चवर्णानि वस्त्राणि प्रवरपरिहिती इत्यादि जयेन विजयेन वर्द्धयतः वर्द्धयित्वा चैवमवादिपातां-अभिजितं देवानुप्रियैः यावत्शब्दात् सर्वं मागधगमवद्वाच्यं, नवरमुत्तरेणं चुल्लहिमवंत मेराए इति 'अम्हे णं देवाणुप्पि आणं विसयवासिणोत्ति आवां देवानुप्रियाणां आज्ञप्तिकिंकरावितिकृत्वा तत्प्रतीच्छन्तु देवानुप्रिया ! | अस्माकमिदं यावच्छन्दादेतद्रूपं प्रीतिदानमितिकृत्वा विनमिः स्त्रीरत्नं नमिश्च रत्नानि समर्पयति । अथ भरतो यदकापत्तदाह-- 'तए ण'मित्यादि, ततः स भरतो राजा यावच्छन्दात् प्रीतिदानग्रहणसत्कारणादि ग्राह्यं, प्रतिविसर्जयति | प्रतिविसृज्य च पौषधशालातः प्रतिनिष्क्रामति प्रतिनिष्क्राम्य च मज्जनगृहमनुप्रविशति अनुप्रविश्य च स्नानविधिः Fur Fate & Cy ~ 162~
SR No.035024
Book TitleSavruttik Aagam Sootraani 1 Part 24 Jambudwippragyapti Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size104 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy