________________
आगम
(१८)
प्रत
सूत्रांक
[ ५५ ]
दीप
अनुक्रम
[७]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [३],
मूलं [५५]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
किं चकारेत्याह - 'तए ण' मित्यादि, अनुवादसूत्रत्वात् सर्वं प्राग्वत्, ननु उन्मग्नजला जलस्योन्मत्वस्व मा कथं तत्र संक्रमार्थकशिलास्तम्भादिन्यासः सुस्थितो भवति १, स च दीर्घपट्टशालाकारो न च जलोपरिकाष्ठादिमयः सम्भवति, तस्यासारत्वेन भारासहत्वात् उच्यते, वर्द्धकिरलकृतत्वेन दिव्यशक्तेरचिन्त्यशक्तिकत्वात्, अनेन चा चकिराज्यपरिसमाप्तेः सर्वोऽपि लोक उत्तरति, गुहा च तावन्तं कालमपावृतैवास्ते मण्डलान्यपि तथैव तिष्ठन्ति उपरते तु चत्रिणि सर्वमुपरमत इति प्रवचनसारोद्वारवृत्तेरभिप्रायः, त्रिषष्टीयाजितचरित्रे तु "उद्घाटितं गुहाद्वारं, गुहान्तमण्डलानि च । तावत्ताम्यपि तिष्ठन्ति, यावज्जीवति चक्रभृत् ॥ १ ॥" इत्युक्तमस्ति । 'तए ण'मित्यादि, ततः स भरतो | राजा स्कन्धावाररूपवलसहितस्ताभ्यां सङ्क्रमाभ्यां उन्मननिमनजले महानद्यौ उत्तरति-परपारं गच्छति, एवं उत्तर तो गच्छति राजराजे उत्तरद्वारे यज्जातं तदाह- 'तए णं' मित्यादि, ततो-नद्यतिक्रमणानन्तरं तस्यास्तमिस्रागुहाया उत्तरा| हस्य द्वारस्य कपाटी स्वयमेव सेनानीदण्डरलाघातमन्तरेणेत्यर्थः महया २ इति सूत्रदेशेन पूर्वसूत्रस्मरणं तेन महया | २ सद्देणमिति बोध्यं क्रौञ्चारवं कुर्वाणौ सरस्सरति कुर्वन्तौ च स्वके स्वके स्थाने प्रत्यवाय्वष्किषातां व्याख्या तु प्राग्वत्, ननु यदि दाक्षिणात्यद्वारकपाटौ सेनापतिप्रयोगपूर्वकमुद्घटेते तथा इमावपि कथं न तथा १, उच्यते, एकशः | सेनापतिसत्यापितकपाटोद्घाटनविधिसन्तुष्टगुहांधिपसुरानुकूलाशयेन द्वितीयपक्षकपाटौ स्वयमेवोद्घटेते इति ॥ अथोतरभरतार्द्धविजयं विवक्षुस्तत्रत्यविजेत व्यजनस्वरूपमाह -
अथ उत्तरार्ध - भरतक्षेत्रस्य विहाय वर्णनं क्रियते
Fu File&inal Use Oxy
~ 116 ~