________________
आगम (१८)
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ------------------------
------- मूलं [४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्ति:
प्रत
सूत्रांक
४
प्रतिपादितं द्रष्टव्यं, बहूयः पद्मलता:-पग्रिन्यः नागलताः-नागा दमविशेषास्त एवं लतास्तिर्यकशाखाप्रसराभावात् । नागलताः, एवमशोकलताः चम्पकलताः 'वणलता' वणा-तरुविशेषा वासन्तिकालताः अतिमुक्तलताः कुन्दलताः | श्यामलताः, कथंभूता एता इत्याह-'नित्यं सर्वकालं षट्स्वपि ऋतुष्वित्यर्थः 'कुसुमिताः' कुसुमानि सजातान्यास्थिति कुसुमिताः, तारकादिदर्शनादितप्रत्ययः, एवं नित्यं मुकुलिताः मुकुलानि नाम-कुड्मलानि कलिका इत्यर्थः, तथा नित्यं । | लवकिताः लव एव लवकः स्वार्थे कः प्रत्ययः स सजात आस्विति लवकिताः, सञ्जातपल्लवलवा इत्यर्थः, तथा नित्यं स्तवकिता:-सञ्जातपुष्पस्तवकाः, तथा नित्यं गुल्मिताः-सञ्जातगुल्मकाः, गुल्मकं च लतासमूहा, तथा नित्यं गुच्छिता:-सजातगुच्छाः, गुच्छश्च पत्रसमूहः, यद्यपि च पुष्पस्तबकयोरभेदो नामकोशेऽधीतस्तथाऽप्यत्र पुष्पपत्रकृतो विशेषो ज्ञेयः, नित्यं यमलिताः, यमलं नाम समानजातीययोर्लतयोयुग्मं तत्सञ्जातमाखिति यम|लिताः, नित्यं युगलिताः, युगल-सजातीयविजातीययोलतयोर्द्वन्द्वं, तथा नित्यं विनमिता नित्यं फलपुष्पादिभारेण 1. विशेषेण नमिता-नीचैर्भावं प्रापिताः, तथा नित्यं प्रणमिता:-तेनैव नमयितुमारब्धाः, प्रशब्दस्यादिकमार्थत्वात्,
अन्यथा पूर्वविशेषणादभेदः स्यात्, नित्यं सुविभकेत्यादि, सुविभक्ता-सुविच्छित्तिकः प्रतिविशिष्टो मञ्जरीरूपी योऽवतंसकस्तद्धरा:-तद्धारिण्यः औपपातिकादौ तु 'सुविभत्तपडि (पिंड) मंजरीवडिंसगधराओं' इति पाठस्तत्र सुविभक्का-अतिविविकाः सुनिष्पन्नतया पिण्यो-लुम्ब्यो मञ्जर्यश्च प्रतीताः, शेषं तथैव, एषः सर्वोऽपि कुसुमि
KeeReserceaekeeperselesedese
Receioeesearcentratermers
अनुक्रम
जीवन
~60~