SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२१] दीप अनुक्रम [३४] “जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः दत्त इत्यर्थः, विशेषणव्यस्तता घार्षत्वात् ततः पूर्वपदेन कर्मधारयः, तद्वद्दीर्घौ बाहू येषा ते तथा, न चात्रानन्तरीकविशेषणेन पौनरुक्त्यमाशङ्कनीयं, अत्रायामतादर्शनाय प्रस्तुतविशेषणस्य विशिष्य दर्शनात्, रकतलौ-अरुणावधीभागौ उपचितौ - उन्नती औपयिकौ वा उचितो अवपतितौ वा क्रमेण हीयमानोपचयी मृदुको मांसलौ सुजाताविति पदत्रयं प्राग्वत्, प्रशस्तलक्षणी अच्छिद्रजाली - अविरलालिसमुदाय पाणी- हस्ती येषां ते तथा, पीवरकोमलवरंगुलीआ इति व्यक्तं, आताखा- ईषद्रकास्तलीनाः प्रतलाः शुचयः - पवित्रा रुचिरा- मनोशाः स्निग्धा - अरूक्षा नखा येषां तथा, नखशब्दे द्विर्भावस्तु प्राग्वत्, चन्द्र इव चन्द्राकारा पाणिरेखा येषां ते तथा, एवमन्यान्यपि त्रीणि पदानि 'दिसासोवत्थि 'ति दिक्सीवस्तिको दिक्प्रोक्षकः दिक्प्रधानः स्वस्तिको दक्षिणावर्त्तः स्वस्तिक इस्वन्ये स पाणी रेखा येषां ते तथा, एतदेवानन्तरोक्त विशेषणपश्ञ्चकं तत्प्रशस्तताप्रकर्षप्रतिपादनाय संग्रहवचनेनाह- 'बंदसूरे 'ति गतार्थ, ननु इयन्त्येव लक्षणानि तेषां शरीरस्थानीत्याह- अनेकैः प्रभूतैर्वरैः - प्रधानैर्लक्षणैरुत्तमाः - प्रशंसास्पदीभूताः शुचय:पवित्राः रचिता:- स्वकर्मणा निष्पादिताः पाणिरेखा येषां ते तथा, धरमहिषः- प्रधानसैरिभः वराहो - वनसूकरः सिंहः- | केसरी शार्दूलो-व्यामः ऋषभो - गौः नागवरः - प्रधानगजः एषामिव प्रतिपूर्ण :- स्वप्रमाणेनाहीनो विपुलो- विस्तीर्णः स्कन्धः - अंसदेशो येषां ते तथा, चतुरङ्गुलं- स्वाङ्गापेक्षया चतुरङ्गुलप्रमितं सुहु-शोभनं प्रमाणं यस्याः सा तथा, कम्बुवरसदृशी-उन्नततया वलित्रययोगेन च प्रधानशङ्गसन्निभा ग्रीवा येषां ते तथा, विवेकविलासे तु प्रतिमाचा एकादशा Furwale rely ~235~
SR No.035023
Book TitleSavruttik Aagam Sootraani 1 Part 23 Jambudwippragyapti Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size92 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy