________________
आगम
(१८)
प्रत
सूत्रांक
[ ७,८]
दीप
अनुक्रम
[७,८]
“जम्बूद्वीप-प्रज्ञप्ति” – उपांगसूत्र -७ (मूलं + वृत्तिः)
वक्षस्कार [१],
मूलं [ ७-८ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१८]उपांगसूत्र-[७] "जम्बूद्वीपप्रज्ञप्ति" मूलं एवं शांतिचन्द्र विहिता वृत्तिः
श्रीजम्बूद्वीपशान्तिचन्द्री
या वृत्तिः
॥ ६१ ॥
अपि स्वामिनोऽन्तिकमायान्ति, मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षत्काः पुनरनाहूताः स्वामिनोऽन्तिकमायान्ति, १वक्षस्कारे तेषामाकारण लक्षणगौरवानर्हत्वात्, अथवा यया सहोत्तममतित्वात् पर्यालोच्य विजयदेवः कार्यं विदधाति सा गौरवे है जम्बूद्वीप| पर्यालोचनायां चात्यन्तमभ्यन्तराऽस्तीत्यभ्यन्तरिका, यस्याः पुरोऽभ्यन्तरपर्षदा सह पर्यालोच्य दृढीकृतं पदं गुणदो- 8 द्वारा०सू.८ पकथनतः प्रपञ्चयति सा गौरवे पर्यालोचनायां च मध्यमे भावेऽस्तीति मध्यमिका, यस्याश्च पुरः प्रथमपर्षदा सह पर्यालोचितं द्वितीयपर्षदा संह प्रपञ्चितं पदमाशाप्रधानः सन्निदं विधेयमिदं न विधेयं वेति प्ररूपयति सा गौरवात्पर्यालोचनाञ्च वहिर्भावेऽस्तीति बाह्या, तस्य सिंहासनस्य पश्चिमेन-पश्चिमायां दिशि अत्र विजयस्य देवस्य सप्तानामनीकाधिपतीनां सप्त भद्रासनानि प्रज्ञप्तानि, अथ परिक्षेपान्तरमाह - तस्य सिंहासनस्य पूर्वस्यां दक्षिणस्यां पश्चिमाया उत्तरस्यां एवं चतसृषु दिक्षु अत्र विजयस्य देवस्य षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडश भद्रासन सहस्राणि प्रज्ञतानि, तद्यथा- पूर्वस्यां चत्वारि भद्रासनसहस्राणि, एवं चतसृष्वपि दिक्षु यावदुत्तरस्यां चत्वारि भद्रासनसहस्राणि प्रज्ञप्ता - नीति, एतद् व्याख्यानं साम्प्रतदृश्यमानजीवाभिगमसूत्रबह्लादर्शपाठानुसारि, वृत्तौ तु तस्य सिंहासनस्य सर्वतः - सर्वासु दिक्षु समन्ततः- सामस्त्येनेत्यादि व्याख्यानमस्ति तत्पाठान्तरापेक्षयेति सम्भाव्यते, अवशेषेषु भीमेषु पूर्वापरमीलनेनाष्टयकेषु प्रत्येकं प्रत्येकं सिंहासनं सपरिवारं सामानिकादिदेवयोग्यभद्रासन रूपपरिवारसहितं प्रज्ञतं, 'विजयस्स णं दारस्स उवरिमागारे सोलसविहेहिं रयणेहिं उवसोभिए, तंजहा - रयणेहिं १ वइरेहिं २ वेरुलिएहिं ३ लोहिअ
Fur Erate&ione Cy
~ 133~
॥ ६१ ॥