SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ आगम (१७) प्रत सूत्रांक [२०] दीप अनुक्रम [३४] चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः ) प्राभृत [१], • प्राभृतप्राभृत [८], मूलं [२०] पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [१७], उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति " मूलं एवं मलयगिरि प्रणीता वृत्तिः सूर्यप्रशविवृत्तिः ( मल० ) ॥ ४१ ॥ Eatont परिक्षेपेण प्रज्ञप्तं, तथाहि - पूर्वमण्डलादस्य विष्कम्भे पश्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिश्यपरिमाणं सप्तदश योजनानि अष्टात्रिंशञ्च एकषष्टिभागा योजनस्य, एतन्निश्चयनयमतेन, परं सूत्रकृता व्यवहारनयमतमवलम्ब्य परिपूर्णान्यष्टादश योजनानि विवक्षितानि, व्यवहारनयमतेन हि लोके किञ्चिदूनमपि परिपूर्ण विवक्ष्यते, तथा यदपि पूर्वमण्डलपरिश्यपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णमित्र विवक्ष्यते, ततः पूर्वमण्डलपरिश्यपरिमाणे अष्टादश योजनान्यधिकश्वेन प्रक्षिष्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिश्यपरिमाणं, 'तया णं दिवसराई तहेव' इति तदा तृतीयमंडलचा रचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तच्चैत्रम्-तया णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुसेहि ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्टिभागमुहुत्तेहि अहिया, 'एवं खल्वि'त्यादि, एवं उक्तप्रकारेण खलु निश्चितमेतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं सङ्क्रामन् सङ्क्रामन् एकैकस्मिन् मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशञ्चैकषष्टिभागा योजनस्येत्येवं परिमाणां विष्कम्भवृद्धिमभिव|र्द्धयशभिवर्द्धयन् एकैकस्मिन्नेतन्मण्डले अष्टादश अष्टादश योजनानि परिश्यवृद्धिमभिवर्द्धयन्नभिवर्द्धयन् इहाष्टादश अष्टादशेति व्यवहारत उक्तं, निश्चयनयमतेन तु सप्तदश सप्तदश योजनानि अष्टात्रिंशतं चैकषष्टिभागा योजनस्येति द्रष्टव्यं एतच्च प्रागेव भावितं, न चैतत्स्वमनीषिका विजृम्भितं यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायां-सत्तरस जोयणाई अहतीसंच एगद्विभागा १७ एयं निच्छरण संववहारेण पुण अट्ठारस जोयणाई' इति प्रथमषण्मासपर्य - F&P On ~95~ १ प्राभृते ८ प्राभृतप्राभृतं ॥ ४१ ॥
SR No.035022
Book TitleSavruttik Aagam Sootraani 1 Part 22 Chandrapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages614
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size133 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy