________________
आगम
(१७)
ཡྻཱ , ཊྛཡྻཱཡྻ
अनुक्रम
-१०७]
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्तिः)
प्राभृत [१२],
---- प्राभृतप्राभृत [ - ],
मूलं [ ७५ ] + गाथा (१)
पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
सूर्यमज्ञ तिवृत्तिः
( मल० )
॥२१८॥
Jan Eaton intamatta
व्यवहारगणितपरिभावितासु पञ्चमी पष्ठी सप्तम्यष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी पञ्चदशीरूपासु शिष्यः प्रक्षं करिष्यति, यथा-सूक्ष्मेण प्रतिदिवस में कैकेन द्वापष्टिभागरूपेण लक्ष्णेन भागेन परिहीयमानायां तिथौ पूर्वस्याः पूर्वस्या अमवमरात्रीभूतायास्तिथेरानन्तर्येण परापरा तिथिः कस्मिन् पर्वणि सञ्जायते समाप्तिः १ एतदुक्तं भवति चतुर्थ्या तिथाववमरात्रीभूतायां कस्मिन् पर्वणि पञ्चमी समाप्तिमुपैति पञ्चम्यांचा षष्ठी एवं यावत्पञ्चदश्यां तिधायवमरात्रीभूतायां कस्मिन् पर्वणि प्रतिपद्धपा तिथिः समानोतीति शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह-'स्वाहिगाउ' इत्यादि इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथा-ओजोरूपा युग्मरूपाश्च, ओजो विषमं युग्मं समं, तत्र या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा च सति तस्यास्तस्यास्तिथेर्युग्मपर्वाणि निर्वाचनरूपाणि समागतानि भवन्ति, 'एमेव हवइ जुम्भे' इति या अपि युग्मरूपास्तिथयस्तास्वपि एवमेव पूर्वोक्तेनैव प्रकारण करणं प्रवर्त्तनीयम् नवरं द्विगुणीकरणानन्तरं एकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणि भवन्ति, इयमत्र भावना - यदाऽयं प्रश्नः कस्मिन् पर्वणि प्रतिपदि अवमरात्रीभूतायां द्वितीया समापयतीति तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको धियते, स रूपाधिकः क्रियते, जाते द्वे रूपे ते अपि द्विगुणीक्रियेते जाताश्चत्वार आगतानि चत्वारि पर्वाणि ततोऽयमर्थः- युगादितश्चतुर्थे पर्वणि प्रतिपद्यवम रात्रीभूतायां द्वितीयासमाप्तिमुपयातीति, युक्तं चैतत् तथाहि प्रतिपद्युद्दिष्टायां चत्वारि पर्याणि समागतानि पर्व च पश्चदशतिध्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता पष्टिः ६०, प्रतिपदि द्वितीया समापयतीति द्विरूपे तत्राधि के प्रक्षिसे जाता द्वाषष्टिः, सा च द्वापट्या भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र
F&PO
~449~
१२ प्राभूते अवमराधि
करणं सु ७५
॥ २९८ ॥