________________
आगम
(१७)
"चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:)
प्राभूत [१०], -------------------- प्राभृतप्राभृत [११], -------------------- मूलं [४५] पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
*
*
प्रत
सूत्रांक [४५]
**
ॐॐॐॐॐॐॐॐ
प
छेदराशिरेकषष्टिस्ततस्तया भागे हते लब्धानि पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपश्चाशदेकषष्टि-18 भागाः एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा, सूर्यमण्डलस्य २ च परस्परमन्तरं द्वे द्वे योजने चन्द्रमण्डलस्य | चन्द्रमण्डलस्य च परस्परं अन्तरं पञ्चत्रिंशद् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, उक्तंच जम्बूद्वीपप्रज्ञप्ती-"सूरमंडलस्स ण भंते ! सूरमंडलस्स एस णं केवाइयं अबाहाए। अंतरे पण्णते ?, गोअमा! दो जोयणाई सूरमंडलस्स सूरमंडलस्स अबाहाए अंतरे पण्णते" तथा "चंदमंडलस्स णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पण्णत्ते, गोयमा ! पन्नत्तीसं जोयणाई तीसं च एगठिभागा जोअणशास्स एगं च एगहिभागं सत्तहा छित्ता चत्तारि अ चुण्णिा भागा सेसा चंदमंडलस्स अबाहाए अंतरे पण्णते" इति, एत| देव च सूर्यमण्डलस्य चन्द्रमण्डलस्य च स्वस्वमण्डलविष्कम्भपरिमाणयुक्तं सूर्यस्य चन्द्रममश्च विकम्पपरिमाणमवसेयं, तथा चोक्तम्-"सूरविकंपो एको समंडला होइ मंडळंतरिया। चंदविकंपो य तहा समंडला मंडलंतरिया ॥१॥" अस्या गाधाया अक्षरगमनिका-एकः सूर्यविकम्पो भवति 'मंडलंतरिय'त्ति अन्तरमेव आन्तय, भेषजादित्वात् स्वार्थे यण, ततः स्त्रीत्वविवक्षायां डीप्रत्यये आन्तरी आम्तर्येच आन्तरिका मण्डलस्य मण्डलस्यान्तरिका मण्डलान्तरिका 'समंडल'त्ति इह मण्डलशब्देन मण्डलविष्कम्भ उच्यते, परिमाणे परिमाणवत उपचारात् , ततः सह मण्डलेन-मण्डलविष्कम्भपरिमाणेन | परिमाणेन वर्त्तते इति समण्डला, किमुक्तं भवति?-एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणं योजनद्वयलक्षणं तदेकसूर्यमण्डलविष्कम्भपरिमाणेन अष्टाचत्वारिंशदेकषष्टिभागलक्षणेन सहितमेकस्य सूर्यमण्डलस्यविकम्पपरिमाणमिति, तथा मण्डलान्त
*
*
अनुक्रम [१९]
~294~