________________
आगम
(१७)
प्रत
सूत्रांक
[३८]
दीप
अनुक्रम [५२]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
---- प्राभृतप्राभृत [६],
मूलं [३८]
प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि प्रणीता वृत्तिः
Jan Eat In
नक्षत्रस्य सम्बन्धिनो मुहर्त्तस्य द्वाषष्टिभागाश्चतुर्विंशतिः षट्षष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः, 'एयाई' इत्यादि, एतान्यनन्तरोदितानि शोधनकानि यथायोगं शोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति । तदेवममावास्याविषयचन्द्रयोगपरिज्ञानार्थे करणमुक्तं, सम्प्रति पौर्णमासीविषय चन्द्रयोगपरिज्ञानार्थं करणमाह-- 'इच्छापुनिमे' त्यादि, यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रनक्षत्र परिज्ञानविधौ ईप्सितपौर्णमासीगुणितो-यां पौर्णमासीं ज्ञातुमि|च्छति तत्साया गुणितः कर्त्तव्यः, गुणिते च सति तदेव पूर्वोक्तं शोधनं कर्त्तव्यं, केवलमभिजिदादिकं नतु पुनर्वसुप्रभृ तिकं, शुद्धे च शोधनके यत् शेषमवतिष्ठते तद्भवेनक्षत्रं पौर्णमासीयुक्त तस्मिंश्च नक्षत्रे करोति उडुपतिः- चन्द्रमाः परिपूर्णः पूर्णमासी विमलामिति । एष पौर्णमासीचन्द्रनक्षत्र परिज्ञानविषय करणगाथाद्वयाक्षरार्थः, सम्प्रत्यस्यैव भावना क्रियतेकोऽपि पृच्छति-युगस्यादौ प्रथमा पौर्णमासी श्राविष्ठी कस्मिंश्चन्द्रनक्षत्रे परिसमाप्तिमुपैति ?, तत्र पट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्धियते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते, एकेन गुणितं तदेव भवति, ततस्तस्मादभिजितो नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य चतुर्विंशतिद्वषष्टिभागा एकस्य द्वापष्टिभागस्य षट्षष्टिः सप्तषष्टिभागा इत्येवंपरिमाणं शोधनकं शोधनीयं तत्र षट्षष्टेर्नव मुहूर्त्ताः शुद्धाः स्थिताः पञ्चात्सप्तपञ्चाशत्, तेभ्य एको मुहूर्त्ते गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जानाः सप्तषष्टिः द्वाषष्टिभागास्तेभ्यश्चतुर्विंशतिः शुद्धाः स्थिताः पश्चानि चत्वारिंशत्, तेभ्य एकं रूपमादाय सप्तप
F&P U O
~ 242~