________________
आगम
(१७)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[३९]
चन्द्रप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्तिः )
प्राभृतप्राभृत [-],
मूलं [२५]
प्राभृत [४], पूज्य आगमोद्धारकश्री संशोधितः सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१७],उपांगसूत्र- [६] "चन्द्रप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
वयं पुनरुत्पन्न केवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'उद्धी + ४ प्राभृतम् मुखेत्यादि, ऊर्ध्वमुखकलम्बुकपुष्पसंस्थिता - ऊर्ध्वमुखस्य कलम्बुकापुष्यस्येव - नालिकापुष्पस्येव संस्थितं संस्थानं यस्याः
सूर्यप्रज्ञसिवृत्तिः
॥ ७१ ॥
ॐ
( मल० ) * सा तथा, तापक्षेत्र संस्थितिः प्रज्ञता, मया शेषश्व तीर्थकृद्भिः, सा कथम्भूतेत्यत आह- अन्तः- मेरुदिशि सङ्कचा-सङ्कुचिता बहि:- लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता- वृत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागान४ भिव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्टं स्पष्टयति-'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिय'त्ति अन्तर्मेरुदिशि अङ्क :- पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धः तस्य मुखं- अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं - संस्थानं यस्याः सा तथा बहिर्लवणदिशि स्वस्तिकमुखसंस्थिता - स्वस्तिक:- सुप्रतीतः तस्य मुखं- अग्रभागः तस्येवातिविस्तीर्णतया संस्थितं - संस्थानं यस्याः सा तथा, 'उभओपासेणं ति उभयपार्श्वेन मेरुपर्वतस्योभयोः पार्श्वयोस्तस्याः -तापक्षेत्रसंस्थितेः सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे ते आयामेन - जम्बूद्वीपगतमायाममाश्रित्यावस्थिते भवतः, सा चैकैका आयामतः किंप्रमाणा इत्याहपञ्चचत्वारिंशत् २ योजनसहस्राणि ४५०००, तस्यास्तापक्षेत्र संस्थितेरेकैकस्या द्वे च बाहे अनवस्थिते भवतः, तद्यथासर्वाभ्यन्तरा सर्वबाद्या च तत्र या मेरुसमीपे विष्कम्भमधिकृत्य बाहा सा सर्वाभ्यन्तरा, या तु लवणदिशि जम्बूद्वीपपर्यन्ते विष्कम्भमधिकृत्य बाहा सा सर्ववाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततया, एवमुक्ते सति भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधनार्थं भूयः पृच्छति- 'तत्थे' त्यादि, तत्र तस्यामेवंविधायामनन्त
Eatont
F
~ 155~
॥ ७१ ॥