________________
आगम (१७)
प्रत
“चन्द्रप्रज्ञप्ति” – उपांगसूत्र-६ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत -1, -------------------- मूलं [१] + गाथा ||२|| पूज्य आगमोद्धारकरी संशोधित: सूर्यप्रज्ञप्ति आधारेण मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१७],उपांगसूत्र-[६] "चन्द्रप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्ति: तिर्यञ्चमपि च सुरासुरकृतं, अतो वीर इति नाम्नाश्चपायापगम अतिशयोध्वन्यते अथवा "ईर गतिप्रेरणयोः" विशेषेण अपुनर्भाव स्वरूपेण ईरयति-प्रेरयति आत्मन: सकाशाच्चावयति याति शिवमिति वीरः | अत्राप्यपायागमातिशय प्रतिपत्ति किं विशिष्टं इति आहनवनलिन इत्यादि | प्राकृते पूर्वनिपातो विशेषणनाम तत्र इति | पत्तल वियसिय शब्दश्च नलिनादि शब्दानां पूर्वं द्रष्टव्य:, पत्तलमिति पत्र समृद्धं, पत्ततमिश्चं तिरकं पत्तलं इति वचनात् कत्वं प्रत्यग्रं | विकसितं व्याकोशीभूतम् तं च ईशच्चेतंविदु, पद्ममिषभीलमथो उत्पलं ईषद् क्तं तु नलिनं इत्यादि पद्मं, कुवलयं नीलोत्पलं शतपत्रं पत्र शतं संख्योपेतं पद्ममेव, तेषां दलं पत्रं तद्वत् दीर्घ मनोहारिणी वाऽक्षिणी यस्य स तथा पुन: कथंभूत इत्याह- गजेन्द्र मदकलसलिनगतविक्रमः - अत्रापि मदकल शब्द स्पष्ट विशेषणभूतस्य विषेष्यात्पर: निपात: प्राकृतत्वात् मदकलो मदमभिगृहणानस्तरुणो गजो, गजानामिन्द्र गजेन्द्रः शेष गजेभ्यो गुणैरधिकतरत्वात् मदकलश्चासौ गजेन्द्रश्च मदकलगजेन्द्रस्तस्येव ललितो मनोज्ञ लीलया सहितो गतरूपो विक्रमो यस्य स तथा कथंभूत इत्याह- भगवान् भग: समग्रैश्वर्यादिरूप: उक्तं च ऐश्वर्यस्य समग्रस्य रूपस्यरास: श्रिय:, धर्मस्याथ प्रयत्न स्पर्षस्यां भग इतिंगता भगोऽस्यास्तीति भगवान | अनेन ज्ञानातिशयोवागतिशय: पूजातिशयोश्चोक्तस्तत्रैश्वर्यवाचित्व विवक्षायां पूजातिशय: प्रयत्नवाचित्वविवक्षायां वागतिशयश्च प्रवर्तते न च ज्ञानातिशयमन्तरेण तथारूपो वागतिशय: पूजातिशयश्च वर्तते | आभ्यां ज्ञानातिशयोप्याक्षिप्यते एते च ज्ञानातिशयादयश्चत्वारोप्यतिशया देह सौगन्ध्यादिनामतिशयानाम् उपलक्षणंतानंतरेणैतेषाम् संभवात्, तत: चतुस्त्रिंशदतिशयोवेतो भगवान् वीरो | जयतीतीतत्फलम् द्रष्टव्यं, तदेवं वर्तमाने तीर्थाधिपते वर्द्धमानस्वामिनो नमस्काराभिधाय संप्रति सामान्यत: पञ्चानामपि परमेष्ठिनां नमस्कारमाह
नमिऊण असुरसुर गरुल भूयगपरिवंदिए गयकिलेशे, अरिहे सिद्धायरिए उवज्झाए सव्वसाय ||२||
दीप अनुक्रम
27
~13