________________
आगम
(१६)
प्रत
सूत्रांक
[ १०५ ]
दीप
अनुक्रम [१९५]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
मूलं [ १०५ ]
प्राभृत [२०], ------ - प्राभृतप्राभृत [-], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
Education in
यदा च राहुञ्चन्द्रस्य सूर्यस्य वा मध्यभागेन लेश्यामावृण्वन् व्यतित्रजति गच्छति तदैवं मनुष्यलोके प्रवादो, यथा-चन्द्रः सूर्यो वा राहुणा व्यतिचरित इति किमुक्तं भवति ! - मध्यभागेन विभिन्न इति यदा च राहुश्चन्द्रस्य सूर्यस्य या 'सप क्खिमिति सह पक्षैरिति सपक्षं सर्वेषु पार्थेषु पूर्वापरदक्षिणोत्तररूपेष्वित्यर्थः, सह प्रतिदिग्भिः सप्रतिदिक, सर्वास्वपि विदिक्षु इत्यर्थः, लेश्यामावृत्याधस्तिष्ठति तदेवं मनुष्यलोकोक्तिर्यथा राहुणा चन्द्रः सूर्यो वा सर्वात्मना गृहीत इति । आहचन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजन प्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्येनार्द्धयोजन प्रमाणत्वात् कथं राहु| विमानस्य सर्वात्मना चन्द्रविमानावरणसम्भवः ?, उच्यते, यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्राविकमवसेयं ततो राहोर्महस्योकाधिकप्रमाणमपि विमानं सम्भाव्यते इति न कदा (का) चिदनुपपत्तिः, अन्ये पुनरेवमाहुः- राहुवि भानस्य महान् वहलस्ति मिश्ररश्मिसमूहस्ततो लघीयसाऽपि राहुविमानेन महता बहलेन तमिश्ररश्मिजालेन प्रसरमधिरोहता सकलमपि चन्द्रमण्डलमा त्रियते ततो न कश्चिद्दोषः । अथ राहोर्भेदं जिज्ञासिषुः प्रश्नयति- 'ता कवि ण'मित्यादि, सुगमं, भगवानाह - 'दुविहे इत्यादि, द्विविधो राहुः प्रज्ञतः, तथथा -- ध्रुवराहुः पर्वराहुश्च तत्र यः सदैव चन्द्रविमानस्याधस्तात् सञ्चरति स भुराहुः, यस्तु पर्वणि पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उप रागं करोति स पर्वराहुः, तत्र योऽसौ वराहः स बहुलपक्षस्य कृष्णपक्षस्य - सम्बन्धिन्याः प्रतिपद आरभ्य प्रतितिथि आत्मीथेन पञ्चदर्शन भागेन पञ्चदशभाग २ चन्द्रस्य लेश्यामावृण्वन् तिष्ठति, तद्यथा - प्रथमायां प्रतिपलक्षणायां तिथौ प्रथमं पञ्चदशभागं द्वितीयस्यां द्वितीयं तृतीयस्यां तृतीयं यावत्पञ्चदश्यां पञ्चदशं ततः पञ्चदश्यां तिथी चरम
For Parts Only
~589~
waryra