SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [ १०५ ] दीप अनुक्रम [१९५] “सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:) - प्राभृतप्राभृत [-], मूलं [ १०५] प्राभृत [२०], ------ पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः 'तद्यथेत्यादिना तानेव दर्शयति — एते यथासम्प्रदायं वैविकत्येन प्रतिपत्तव्याः, 'ता जया णमित्यादि, ततो यदा णमिति वाक्यालङ्कारे एते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्नाः समस्ताः 'सत्ता' इति सदा सातत्येनेत्यर्थः चन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः- चन्द्रसूर्यबिम्वगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति यथा एवं खलु राहुश्चन्द्र सूर्य वा गृह्णातीति, 'ता जया णमित्यादि, ता इति पूर्ववत्, यदा णमिति पुनरर्थे निपातस्यानेकार्थत्वात् यदा पुनरेते पञ्चदश कृष्णाः पुद्गलाः समस्ताः नो सदा-न सातत्येन चन्द्रस्य सूर्यस्य या लेख्यानुबन्धचारिणो भवन्ति, न खलु तदा मनुष्यलोके मनुष्या एवं वदन्ति यथा एवं खलु राहुश्चन्द्र सूर्य बा गृह्णातीति तेषामेवोपसंहारवाक्यमाह - 'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्रं सूर्य वा गृह्णातीति लौकिकं वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुक्तपरतीर्थिकाभिप्रायेण, भगवानाह - 'एते' इत्यादि, एते परतीर्थिका एवमाहुः, 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलाः केवलविदोपलभ्य एवं वदामो, यथा- 'राहूण'मित्यादि, ता इति पूर्ववत्, राहुः णमिति वाक्यालङ्कारे, न देवो न परपरिकल्पितपुद्गलमात्रं स च देवो महर्द्धिको महाद्युतिः महाबलो महायशा महासौख्यो महानुभावः, एतेषां पदानामर्थः प्राग्वद् भावनीयः, यरवस्त्रधरो वरमाध्यधरो वराभरणधारी, राहुस्स णमित्यादि, तस्य च राहोर्देवस्य नव नामधेयानि प्रज्ञतानि, तद्यथा - 'सिंघाडए' इत्यादि सुगमं, 'ता राहुस्स णमित्यादि, ता इति पूर्ववत्, राहोर्देवस्य विमानानि पश्ञ्चवर्णानि प्रज्ञतानि, किमुक्तं भवति ? - पञ्च विमानानि पृथगेकैकवर्णयुक्तानि प्रज्ञष्ठानि, तथथा- 'किण्हे नीले' इत्यादि, सुगर्भ, नवरं खञ्जनं दीपमल्लिकामल: 'लापवण्णाभे' इति आर्द्रतुम्बवर्णाभं, 'ता For Penal Use Only ~ 587 ~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy