SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१], -------------------- प्राभृतप्राभृत [३], ------------ ----- मूलं [१४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [१४] द्वितीयानां षण्मासानां मध्ये उत्तरपश्चिमे चतुर्भागमण्डले-मण्डलचतुर्भागे एकनवतिसक्यानि मण्डलानि स्वस्वमण्डलगतचतुर्विशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि 'खयंमतानि'स्वयं सूर्येण पूर्व सर्वाभ्यन्तराममण्डलान्निष्क्रमणकाले चीर्णानि प्रतिचरतीति गम्यते, पतदेव व्याचष्टे-'जाई सूरिए अप्पणा चेव चिपणाई पहिचरति एतत्पूर्ववद् ब्याख्येयं, इह सर्ववाह्यान्मण्डलात् शेषाणि मण्डलानि ज्यशीत्यधिकशतसङ्ख्या नि तानि च द्वाभ्यामपि सूर्याभ्यां द्वितीयषण्मासमध्ये प्रत्येक परिश्रम्यन्ते, सर्वेष्वपि च दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिश्रम्यते द्वितीयमपरेण एवं यावत्सर्वान्तिमं मण्डलं, तत्र दक्षिणपूर्व दिग्भागे द्वितीयषण्मासमध्ये भारतः सूर्यों द्विनवतिमण्डलानि परिचमति, एकनवतिमण्डलानि ऐरावतः, उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्डलान्पैरावतः परिभ्रमति, एकनवतिमण्डलानि भारतः, एतश्च पट्टिकादी मण्डलस्थापनां कृत्वा परिभावनीयं, तत उक्तम्-दक्षिणपूर्वे द्विनवतिसक्यानि मण्डलानि उत्तरपश्चिमे वेकनबतिसक्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वीयं चीर्णप्रतिपरणपरिमाणमु कमिदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह-तत्थ य अयं भारहे'इत्यादि, 'तत्र'जम्बूद्वीपे 'अयं &प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपसम्बन्धी भारतः सूर्यो यस्मिन् मण्डले परिचमति तत्तन्मण्डलं चतुर्विशत्यधिकेन भाग-18| शतेन छित्त्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया तत्तन्मण्डलं चतुभिर्विभज्य उत्तरपूर्वे इंसाने कोणे इत्यर्थः 'चतुर्भागमण्डले'तस्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां षण्मासाना मध्ये ऐरावतस्य सूर्यस्य द्विनवतिसूर्यमतानि-द्विनवतिसामान्यैरावतेन सूर्येण पूर्व निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेव अनुक्रम [२४] ॐॐॐॐ KISAS*XXXXX ~55~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy