________________
आगम
(१६)
प्रत सूत्रांक
[१२-१३]
दीप
अनुक्रम [२२-२३]
मूलं [१२-१३]
प्राभृत [१], प्राभृतप्राभृत [२], पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित ..आगमसूत्र - [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः)
-
( मल० )
सूर्यप्रज्ञ- ४ तदा दिवसोऽष्टादशमुहर्त्ता द्वाभ्यां मुहत्कषष्टिभागाभ्यामूनो भवति, जघन्या च द्वादशमुहूर्ता रात्रिः द्वाभ्यां मुहर्त्तकशिवृत्तिः षष्टिभागाभ्यामभ्यधिका, ततस्तस्या अपि द्वितीयस्था उत्तरार्द्धमण्डलसंस्थितेरुकप्रकारेण स सूर्यो निष्क्रामन् अभिनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तरादू द्वितीयोत्तरार्द्धमण्ड लगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् विनिःसृत्य 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अभितरं तचं'ति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणामर्द्ध मण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति, अत्रापि तथा चारं चरति आदिप्रदेशादूर्द्ध शनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्य पर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्यो जनैकषष्टिभागानपरे च द्वे योजने अपहाय चतुर्थस्योत्तरार्द्ध मण्डलस्य सीमायामवतिष्ठते, 'ता जया णमित्यादि, ततो यंदा णमिति पूर्ववत् सर्वाभ्यन्तरान्मण्डलानृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति | तदा अष्टादशमुहूर्त्ता दिवसो भवति चतुर्भिर्मुहत्कषष्टिभागैरुनो द्वादशमुहर्त्ता रात्रिः चतुर्भिर्मुहतैकषष्टिभागैरभ्यधिका, 'एवं खलु' इत्यादि, एवं उक्तनीत्या खलु निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनै कषष्टिभागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रामन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरं तस्मिन् २ देशे दक्षिणपूर्वभागे उत्तरपश्चिमभागे वा तां तां अर्द्धमण्डलसंस्थितिं सङ्क्रामन् २ द्व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणस्मात् दक्षिणदिग्भाविनोऽन्तरात् व्यशीत्यधिकशततममण्डलगताष्टाचत्वारिंशद्यो जनैक षष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपा| द्वागात् 'तस्साइपएसाए' इति तस्य - सर्व बाह्यमण्डल गतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्व बाह्यामुत्तरार्द्धमण्डल संस्थि
॥ १८ ॥
४.
For Penal Use Only
~ 46~
१ प्राभूते
२ प्राभृत प्राभृतं
॥ १८ ॥
www.landbrary or