________________
आगम (१६)
सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [१], ------------ ----- मूलं [११] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [११]
पवूद्धी रात्रिन्दिचानां कथं भवत इत्याह-मुहुत्ताणंचयोवचएण'मुहूर्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन-अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धिः, इयमत्र भावना-परिपूर्णपञ्चदशमुहूर्तप्रमाणे दिवसरात्रीन भवतो, हीनाधिकपञ्चदशमुहूर्तप्रमाणे तु दिवसरात्रीभवतः, एवं 'अन्नत्थ वा अणुवायगईए'इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगतेः-अनुसारगतेः पञ्चदशमुहूत्तों दिवसः पञ्चदशमुहूर्ता वा रात्रिने भवति, अनुसारगत्या तु भवत्येव, साचानुसारगतिरेवं-यदि ज्यशी-2 त्यधिकशततमे मण्डले षण्मुहूर्त्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ यो मुहूर्ताःप्राप्यन्ते,व्यशीत्यधिकशतस्य वाई सार्दा एकनवतिः तत आगतं एकनवतिसक्कोषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्याङ्के गते पञ्चदश मुहूर्ताः प्राप्यन्ते, तवस्तत उर्दू रात्रिकल्पनायां पश्चदशमुहूत्र्तो दिवसः, पञ्चदशमुहूर्ता च रात्रिर्लभ्यते नान्यथेति, 'गाहाओ भणितव्याओ'त्ति अत्र अनन्तरोक्तार्थसवाहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबाहुवामिना या नियुक्तिः कृता तत्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्तन्ते ता 'भणितव्याः'पठनीयाः, ताश्च सम्पति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति ।
इति मलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां प्रथमस्य प्राभृतस्य प्रथम प्राभृतप्राभृतं समाप्तम् ।।
अनुक्रम [२१]
तदेवमुकं प्रथमस्य प्राभृतस्य प्रथम प्राभृतप्राभृतं सम्पति द्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह
weredturary.com
अत्र प्रथमे प्राभृते प्राभृतप्राभृतं- १ परिसमाप्तं
अथ प्रथमे प्राभृते प्राभृतप्राभृतं- २ आरभ्यते
~ 41~