SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम (१६) प्रत सूत्रांक [६७] दीप अनुक्रम [९४] “सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ (मूलं + वृत्तिः) • प्राभृतप्राभृत [२२], मूलं [ ६७ ] प्राभृत [१०], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः पुष्यशोधनकस्य कथमुत्पत्तिरिति, उच्यते, इह पूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशतिः सप्तषष्टिभागाः परिसमासाचत्वारिंशदवतिष्ठन्ति ततस्ते चतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि १३२०, तेषां सप्तषष्ट्या भागो हियते, लब्धा एकोनविंशतिर्मुहूर्त्ताः शेषास्तिष्ठन्ति सप्तचत्वारिंशत् ४७, ते (च) द्वाषष्टिभागानयनार्थं द्वापच्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि २९१४, तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रिचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागाः एतद् ध्रुवराशेः शोध्यते, तद्यथा-षट्षष्टेर्मुहूर्त्तेभ्यः एकोनविंशतिर्मुहूर्त्ताः शुद्धाः स्थिताः पश्चात्सप्तचत्वारिंशत्तेभ्य एको मुहूर्ती गृह्यते स्थिताः षट्चत्वारिंशद्, गृहीतस्य च मुहूर्त्तस्य द्वाषष्टिभागाः कृत्वा द्वाषष्टिभागराशौ पश्चकरूपे प्रक्षिप्यन्ते, जाता द्वाष|ष्टिभागाः सप्तषष्टिस्तेभ्यस्त्रिचत्वारिंशत् शोध्यन्ते स्थिताः पञ्चाञ्चतुर्विंशतिस्तेभ्यः एकरूपमुपादीयते जाता त्रयोविंशतिः गृहीतस्य च रूपस्य सप्तषष्टिभागाः क्रियन्ते कृत्वा च सप्तषष्टिभागेकमध्ये प्रक्षिष्यन्ते जाता अष्टषष्टिः सचषष्टिभागास्तेभ्यस्त्रयस्त्रिंशत् शुद्धाः स्थिताः पञ्चत्रिंशत्, ततः पञ्चदशमुहूतैरश्लेषा त्रिंशता च मुहूर्तेर्मघा शुद्धा स्थितः पचादेको मुहूर्त्त एकस्य च मुहूर्त्तस्य त्रयोविंशतिद्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः । १ । २३ । ३५ । तत आगतं - पूर्व फाल्गुनी नक्षत्रस्याष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्याष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभा गस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु सूर्यः प्रथमां पौर्णमासीं परिसमापयति, एते च सूर्यमुहर्त्ताः एवंभूतैश्च सूर्यमुह सैंस्त्रिंशता त्रयोदश रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्त्ता भवन्ति, तत एतदनुसारेण गते Eucation International For Pass Use Only ~383~ waryru
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy