________________
आगम (१६)
"सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१०], -------------------- प्राभृतप्राभृत [२०], -------------------- मूलं [१६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत
सूत्रांक
[१६]]
टीप
एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य धनिष्ठा १४ पञ्चदशस्य अजः-- अजदेवतोपलक्षिताः पूर्वभद्रपदाः १५ षोडशस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १६ सप्तदशस्योत्तरभद्र-I पदा १७ अष्टादशस्य पुष्यः-पुष्यदेवतीपलक्षिता रेवती १८ एकोनविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी १९ पदं च कृत्तिकादिकमिति, विंशतितमस्य कृत्तिकाः २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मृगशिरः २२ त्रयोविंशतितमस्याी २३ चतुर्विंशतितमस्य पुनर्वसुः २४ पञ्चविंशतितमस्य पुष्यः २५ षविंशतितमस्य पितरः-पितृदेवतोपलक्षिता मघाः २६ सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्दः २७ अष्टाविंशतितमस्यार्यमा-अर्थमदेवा उत्तरफाल्गुन्यः २८ एकोनत्रिंशत्तमस्याप्युत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य चित्रा ३० एकत्रिंशत्तमस्य वायु:-वायुदेवतोपलक्षिता स्वातिः ३१ द्वात्रिंशत्तमस्य विशाखा ३२ त्रयस्त्रिंशत्तमस्थानुराधा ३३ चतुर्विंशत्तमस्य ज्येष्ठा ३४ पञ्चत्रिंशत्तमस्य पुनरायु:-आयुर्देवतोपलक्षिताः पूर्वाषाढाः ३५ पत्रिंशत्तमस्य विष्वगदेवा उत्तराषाढा ३६ सप्तत्रिंशत्तमस्याप्युत्तरापाढा ३७ अष्टात्रिंशत्तमस्य श्रवणः ३८ एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९ चत्वारिंशत्तमस्याज:-अजदेवतोपलक्षिता पूर्वभद्रपदा ४० एकचत्वारिंशत्तमस्याभिवृद्धिः-अभिवृद्धिदेवा उत्तरभद्रपदाः ४१ द्वाचत्वारिंशत्तमस्याप्युत्तरभद्रपदा ४२ चत्वारिंशत्तमस्याश्या-अश्वदेवा अश्विनी ४३ चतुश्चत्वारिंशत्तमस्य यमो-यमदेवा भरणी ४४ पञ्चचत्वारिंशत्तमस्य बहुला:-कृत्तिकाः ४५ षट्चत्वारिंशत्तमस्य रोहिणी ४६ सप्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरः ४७ अदितिद्वि कमिति अष्टचत्वारिंशत्तमस्यादितिः-अदितिदेवोपलक्षितं पुनर्वसुनक्षत्र ४८ एकोनपश्चाशत्तमस्यापि
अनुक्रम
[७७]
~343~