________________
आगम
(१६)
प्रत
सूत्रांक
[८]
दीप
अनुक्रम [१८]
“सूर्यप्रज्ञप्ति” – उपांगसूत्र -५ ( मूलं + वृत्तिः)
मूलं [८]
प्राभृत [१], ----- ----- प्राभृतप्राभृत [१], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
महावीरे गोयमं एवं बयासी तुमं चैव णं तरस ठाणस्स आलोएहि जाव पडिक्कमाहि, आनंदं च समणोवासयं एयमहं खामेहि, तए णं समणे भगवं गोयमे समणस्स भगवओ महावीरस्स अंतिए एयम विणणं पडिसुणेइ, पडिणित्ता तस्स ठाणस्स आलोएइ जाव पडिक्कमइ, आनंदं च समणोवासयं एयम खामेइ' इति, अथवा भगवान् अपगतसंशयोऽपि शिष्य सम्प्रत्ययार्थं पृच्छति, तथाहि - तमर्थ शिष्येभ्यः प्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छतीति यदिवा इत्थमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः । एवं भगवता गौतमेन प्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी | प्रतिवचनमभिधातुकामः सविशेषबोधाधानाय प्रथमतो नक्षत्रमासे यावन्तो मुहूर्त्ताः सम्भवन्ति तावतो निरूपयति'ता अट्ठे'त्यादि, तावदिति शिष्योक्तपदानुवादः स च भ्यायमार्गप्रदर्शनार्थे, तथाहि - सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतिवचनमभिधातव्यं येन गुरुषु शिष्याणां बहुमानो भवति यथाऽहं गुरूणां सम्मत इति, अन्यच्च तावच्छन्द स्यायमर्थः- आस्तामन्यत्प्रतिवक्तव्य| मिदानीं तावदेव तवाग्रे कथयामि एतस्मिन्नक्षत्रमासे अष्टौ मुहूर्त्तशतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टि भागानहमाख्याता इति स्वशिष्येभ्यो वदेत्, एतेन चैतदावेदयति-इह शिष्येण सभ्यगधीतशास्त्रेणापि गुर्वनुज्ञातेन सता तत्त्वोपदेशोऽपरस्मै दातव्यो नान्यथेति, अथ कथमेकस्मिनक्षत्रमासे अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य सप्तविंशतिः सप्तषष्टिभागा इति १, उच्यते, इह युगे चन्द्रचन्द्राभि| वर्द्धितचन्द्राभिवर्द्धित रूपसंवत्सरपञ्चकात्म के सप्तषष्टिर्नक्षत्रमासाः, युगे चोक्तस्वरूपे अहोरात्राणामष्टादश शतानि त्रिंशद
For Parts Only
~29~