SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभृत [१०], -------------------- प्राभृतप्राभृत [२], -------------------- मूलं [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [३३] श्रीप तत्र-तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्तान् यावश्चन्द्रेण सह योगमश्नुवते तानि षट्, तद्यथाशतभिषक् इत्यादि, तथाहि-एतेषां षण्णामपि नक्षत्राणां प्रत्येकं सप्तपष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्वान् त्रयस्त्रिं|शद्भागान् यावच्चन्द्रेण सह योगो भवति, ततो मुहूत्र्तगतसप्तपष्टिभागकरणार्थ त्रयस्त्रिंशता गुण्यन्ते, जातानि नव शतानि नवत्यधिकानि ९९०, यदपि सार्द्ध तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्सस्य सप्तपष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशिः सहनं पञ्चोत्तरं १००५, तथा चैतेषां प्रत्येक कालमधिकृत्य सीमाविस्तारो मुहूर्त्तगतसप्तषष्टिभागानां पञ्चोत्तरं सहनं, उक्तं च-"सयभिसयाभरणीए अद्दा अस्सेस साह जिहाए । पंचोत्तरं सहस्सं भागाणं सीमविक्खंभो ॥१॥" अस्य पञ्चोत्तरसहस्रस्य सप्तषट्या भागो हियते, लब्धाः पञ्चदश मुहर्चाः, उक्तं च-"सय| भिसया भरणीओ अद्दा अस्सेस साइ जिहा य । एए छन्नक्खत्ता पन्नरसमुहुत्तसंजोगा ॥२॥" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति तानि पश्चदश, तद्यथा-'सवणों इत्यादि, तथाहिएतेषां कालमधिकृत्य प्रत्येक सीमाविष्कम्भो मुहर्तगतसप्तषष्टिभागानां दशोत्तरे द्वे सहस्रे २०१०, ततस्तयोः सप्तपट्या भागे हृते लब्धाः त्रिंशन्मुहूर्ताः, तथा तत्र यानि नक्षत्राणि पश्चचत्वारिंशतं मुहर्तन यावचन्द्रेण | सार्द्ध योगं युञ्जन्ति तानि पद, तद्यथा-'उत्तरभद्रपदा इत्यादि, तेषां हि प्रत्येक कालमधिकृत्य सीमाविष्कम्भो मुहूर्तगतसप्तषष्टिभागानां त्रीणि सहस्राणि पश्चदशोत्तराणि ३०१५, ततस्तेषां सप्तपथ्या भागे हते लब्धाः पञ्चचत्वारिंशदेव मुहूर्त्ता लभ्यन्ते, उकंच-"तिमेव उत्तराई पुणवसू रोहिणी विसाहा य । एए छन्नक्खत्ता पणयालमुहुससंजोगा॥१॥ अनुक्रम [४३] ~213~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy