________________
आगम
(१६)
प्रत
सूत्रांक
[३१]
दीप
अनुक्रम
[४१]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-], ----
मूलं [३१]
प्राभृत [९], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [१६] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्तिः
सूर्यप्रज्ञतिवृत्तिः ( मल० )
॥ ९२ ॥
"ए"
ऊर्ध्वमुच्चैस्त्वेन व्यवस्थित एतावताऽध्वना, सूत्रे चाध्वशब्दस्य स्त्रीत्वेन निर्देशः प्राकृतत्वात्, एकेन च छायानुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुद्देशतः प्रमाणमनुमीयते तेन, इहाकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं नैव साक्षात् परिग्रहीतुं शक्यते किन्तु देशतोऽनुमानेन ततश्छायानुमानप्रमाणेनेत्युक्तं, 'उमाए'त्ति अवमितः परिच्छिन्नो यो देशः- प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्य एकपौरुष पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः प्रमाणभूतां छायां निर्वर्त्तयति, इयमत्र भावना - प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभिः प्रकाश्यवस्तुदेशे ऊर्द्ध क्रियमाणाभिः किञ्चित्पूर्वाभिमुखमवनताभिः प्रकाश्येन च वस्तुनां यः सम्भाव्यते परिच्छिन्न | आकाशप्रदेशः तत्रागतः सूर्यः प्रकाश्यवस्तुप्रमाणां छायां निर्वर्त्तयति, एवमुत्तरत्रापि भावना कार्या, 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः अस्ति स देशों यस्मिन् देशे समागतः सूर्यो द्विपीरुपीं छायां निर्वर्त्तयति त एवं स्वमतविस्फारणार्थमाहु:-'ता सूरियस्स णमित्यादि, ता इति पूर्ववत् सूर्यस्य सर्वाधस्तात् सूर्यप्रतिधेः- सूर्यनिवेशाद्वहिर्निःसृताभिर्लेश्याभिस्ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद्भूमिभागादूर्ध्वमुञ्चखेन व्यवस्थितः एतावञ्चयां द्वाभ्यामद्वाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्यां प्रकाश्यवस्तुप्रमाणाभ्यामवमितः परिच्छिन्नो यो देशस्तत्र समागतः सूर्यो द्विपौरुषी-प्रका श्यवस्तुनो द्विगुणां छायां निर्वर्त्तयति एवमेकैकप्रतिपत्तावे के कच्छायानुमानप्रमाणवृद्ध्या तावन्नेतव्यं यावत्पण्णवतितमा प्रतिपत्तिः, तद्गतानि च सूत्राणि स्वयं परिभावनीयानि, सुगमत्यात्, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः । सम्प्रति स्वम्तमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'सातिरेगे' त्यादि, सूर्य
an Internation
For Parts Only
~206~
९ प्राभूते पौरुषीछाया सू ३१
Je.
॥ ९२ ॥
wor