________________
आगम (१६)
“सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:)
प्राभृत [१], -------------------- प्राभृतप्राभृत [-], -------------------- मूलं [२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रस्तावना
सूयमज्ञप्तिवृत्तिः (मल.)
བྷྱཱ ཀྱ ཀྵ ཟླ
॥५
॥
ACCSCANNAR
यस्यासौ ऊर्ध्वजानुः, शुद्धपधिच्यासनवर्जनादौपग्रहिकनिषद्यायास्तदानीमभावाच उत्कटुकासन इत्यर्थी, अधःशिरा नोधै तिर्यग्वा विक्षिप्तदृष्टिः किन्तु नियतभूभागनियमितदृष्टिरिति भावः, 'झाणकोट्टोवगए'त्ति ध्यान-धर्म्य शुक् वा तदेव कोष्ठ:-कुशूलो धानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्ठके धान्य प्रक्षिप्तमविप्रसृतं भवति, एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः, 'संयमेन पञ्चाश्रवनिरोधादिलक्षणेन तपसा' अनशनादिना, चशब्दोऽत्र समुच्चयार्थों लुप्तो द्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थ, प्राधान्यं च संयमस्य |नवकर्मानुपादानहेतुत्वेन तपसश्च पुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच जायते सकलकर्मक्षयलक्षणो मोक्षः, ततो भवति संयमतपसोर्मोक्षं प्रति प्राधान्यमिति, 'अप्पाणं भावेमाणे विहरई' इति आत्मानं भावयन्-वासयन् तिष्ठतीत्यर्थः, 'ततो णं से इति ततो-ध्यानकोष्ठोपगतविहरणादनन्तरं, णमिति वाक्यालङ्कारार्थः, 'स' भगवान् गौतमो 'जायस?' इत्यादि जातश्रद्धादिविशेषणः सन् उत्तिष्ठतीति योगः, तत्र जाताप्रवृत्ता श्रद्धा-इच्छा वक्ष्यमाणार्थतत्त्वज्ञान प्रति यस्यासी जातश्रद्धः, तथा जातः संशयो यस्य स जातसंशयः, संशयो । नामानवधारितार्थ ज्ञानं, स चैवं भगवतः-इह सूर्यादिवक्तव्यता अन्यथा, अन्यथा च तीर्थान्तरीयरुपदिश्यते, ततः किं| तत्त्वमिति संशयः, तथा 'जायकुऊहल्ले त्ति जातं कुतूहलं यस्य स जातकुतूहलः जातीत्सुक्य इत्यर्थः, यथा कथमेनां | सूर्यवक्तव्यतां भगवान् प्रज्ञापष्यितीति, तथा 'उप्पन्नसहे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासी उत्पन्नश्रद्धः, अथ जातश्रद्धः इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते ,प्रवृत्तबद्धत्वेनोत्पन्नश्रद्धत्वस्य लब्धत्वात्, न धनुत्पन्ना
।
॥५
॥
~20~