SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ आगम (१६) सूर्यप्रज्ञप्ति” – उपांगसूत्र-५ (मूलं+वृत्ति:) प्राभूत [८], -------------------- प्राभृतप्राभृत -], ------------ ---- मूलं [२९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [१६] उपांगसूत्र- [१] "सूर्यप्रज्ञप्ति मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूर्यप्रज्ञप्तिवृत्तिः (मल.) प्राभृते उदयस| स्थितिः सू २९ सुत्राक [२९] ESCRIBE दीप पूर्वस्यामपरस्यां च दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् !, एतच्च प्रथमानां परतीर्थिकानां मूलभूतं |स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह-एगे एचमाहंसु'१, एके पुनरेवमाहुः यदा जम्बूद्वीपे द्वीपे दक्षिणे- स्मिन्नर्देऽष्टादशमुहर्त्तानन्तर:-अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाकू हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहर्तेभ्यः | किश्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तराःऽप्यष्टादशमुहूर्त्तानन्तरो दिवसो भवति, यदा चोत्तरार्धेऽष्टादश मुहूर्त्तानन्तरो दिवसो भवति तदा दक्षिणाद्धेऽपि अष्टादशमुहुनिन्तरो दिवसः, तथा यदा जम्बूद्वीपे द्वीपे दक्षिवाणा सप्तदशमुहूर्त्तानन्तरो दिवसो भवति तदा उत्तराद्धेऽपि सप्तदशमुहूर्त्तानन्तरो दिवसः, यदा उत्तरार्दै सप्तदशमुहू निन्तरो दिवसस्तदा दक्षिणा.ऽपि सप्तदशमुहूर्त्तानन्तरो दिवसः, 'एव'मित्यादि, एवमुक्तेन प्रकारेण एकैकमुहूर्चहान्या परिहातव्यं, परिहानिप्रकारमेवाह-सोलसे'त्यादि, प्रथमतः पोडशमुहूर्तानन्तरो दिवसो वक्तव्यः, ततः पञ्चदशमुहर्ता| नन्तरस्तदनन्तरं चतुर्दशमहत्तानन्तरः, ततः त्रयोदशमुहूर्त्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमुहूर्त्तानन्तरसूत्रं तु साक्षाद्दर्शयति,"ता जया 'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणा. द्वादशमुहूर्तानन्तरो दिवसस्तदा उत्तरार्दैऽपि द्वादशमुहूर्तानन्तरो दिवसः, यदा चोत्तरार्द्ध द्वादशमुहूर्त्तानन्तरो दिवसस्तदा दक्षिणाद्धेऽपि द्वादशमुहूर्त्तानन्तरो दिवसः, तदा चाष्टादशमुहूत्तानन्तरादिदिवसकाले जम्बूद्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि नो-नैव सदा-सर्वकालं पश्चदशमुहतों दिवसो भवति नापि सदा पश्चदश मुहूर्ती रात्रिः, कुत इत्याह-'अणवहिया णमित्यादि, अनवस्थितानि-अनियतप्रमाणानि, अनुक्रम [३९]] ~184~
SR No.035021
Book TitleSavruttik Aagam Sootraani 1 Part 21 Sooryapragyapti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages610
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_suryapragnapti
File Size132 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy