________________
आगम
(१६)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[३५]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
मूलं [२५]
प्राभृत [ ४ ], ----- प्राभृतप्राभृत [ - ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
तापक्षेत्र संस्थितिः प्रज्ञष्ठा, अत्र विग्रहभावना प्रागित्र वेदितव्या, अत्रोपसंहारः 'एगे एवमाहंसु' १०, एवं उनकेन प्रकारेण उद्यानसंस्थिता तापक्षेत्र संस्थितिरपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, उज्जाणसंठिया तावखित्तसंठिई पक्षता, एगे एवमाहंसु, (ग्रंथाग्रं २०००) अत्र उद्यानस्येव संस्थितं - संस्थानं यस्याः सा तथेति विग्रहः ११, 'निज्जाणसंठिय'त्ति निर्याणं पुरस्य निर्गमनमार्गः तस्येव संस्थितं - संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, निजाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंस' १२, 'एगतोनिसहसंठियत्ति एकतो- रथस्य एकस्मिन् पार्श्वे यो नितरां सहते स्कन्त्रः पृष्ठे वा समारोपितं भारमिति निषधो बलीवईस्तस्येव संस्थितंसंस्थानं यस्याः सा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु, एगतोनिसहसं |ठिया तावस्त्रित्तसंठिई पण्णत्ता, एगे एवमाहंसु १३, 'दुहतोनि सहसंठिय'त्ति अपरेषामभिप्रायेणोभयतो निषधसंस्थिता वक्तव्या, उभयतो- रथस्योभयोः पार्श्वयोर्यो निषधौ-चलीबद्द तयोरिव संस्थितं संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या - एगे पुण एवमाहंसु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १४ 'सेपणगसंठिय'त्ति | श्येनकस्यैव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैत्रम्- 'एगे पुण एवमाहंसु सेयाणसंठिया तावखित्तसंठिई पन्नत्ता एगे एवमाहंसु' १५, 'एंगे पुण' इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव श्येनपृष्ठस्येव संस्थितं - संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थितिः प्रज्ञप्ता, अत्रोपसंहारमाह- 'एगे एवमाहंसु' १६, तदेवमुक्ताः षोढ| शापि प्रतिपत्तयः, एताश्च सर्वा अपि मिध्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्नमुपदर्शयति- 'वयं पुण' इत्यादि,
Education Internation
For Parts Only
~ 151~