________________
आगम
(१६)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम [३५]
सूर्यप्रज्ञप्ति” – उपांगसूत्र - ५ ( मूलं + वृत्ति:)
----- प्राभृतप्राभृत [-],
मूलं [२५]
प्राभृत [ ४ ], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र- [ १६ ] उपांगसूत्र- [५] "सूर्यप्रज्ञप्ति" मूलं एवं मलयगिरि-प्रणीता वृत्तिः
भगवन् ! चन्द्रसूर्य संस्थितिराख्याता इति वदेत् ?, इह चन्द्रसूर्यविमानानां संस्थानरूपा संस्थितिः प्रागेवाभिहिता तत इह चन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपि अवस्थानरूपा पृष्टा द्रष्टव्या, एवमुक्ते भगवानेतद्विषये यावत्यः परतीर्थिकाणां प्रतिपत्तयस्ताव तीरुपदर्शयति- 'तत्थे'त्यादि, तत्र चन्द्रसूर्यसंस्थितौ विचार्यमाणायां खल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-एके वादिन एवमाहुः - समचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिः प्रज्ञप्ता, समचतुरस्रं संस्थितिं संस्थानं यस्याश्चन्द्रसूर्यसंस्थितेः सा तथा अत्रैवोपसंहारवाक्यमाह - एगे एवमाहंसु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १, एके पुनरेवमाहुः विषमचतुरस्रसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्रापि विषमचतुरस्रं संस्थानं यस्याः सा तथेति विग्रहः २, एवं 'समचउकोणसंठिय'ति एवं उक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्य संस्थितिवक्तव्या, सा चैवम्- 'एगे पुण एवमाहंसु समचउकोणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' अत्र 'समचउकोणसंठिय'त्ति समाश्चत्वारः कोणा यत्र तत् समचतुष्कोणं ( तत् ) संस्थितं - संस्थानं यस्याः सा तथेति विग्रहः ३, 'विसमचउकोणसंठिय'त्ति 'एगे पुण एवमाहंसु-विसमचक्कोणसंठिया चंदिमसूरियसंठिई पत्ता, एगे एवमाहंसु' ४ 'समचकवालसंठिय'त्ति समचक्रवाल - समचक्रवालरूपं संस्थितं - संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिवक्तव्या, सा चैवम्- 'एगे एवमाहंसु समचकवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' ५, 'विसमचकवालसंठिय'त्ति विषमचक्रवालं विषमचक्रवालरूपं संस्थितं - संस्थानं यस्याः सा तथा अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वतव्या, सा चैवम्-'एगे एवमाहंसु विसमचक्कवालसंठिया चंदिमसूरियसंठिई पण्णत्ता, एगे एवमाहंसु' ६, 'चकद्वचकवाल
Ja Education International
For Parts Only
~147~
waryru