________________
आगम
(१५)
“प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशक: [२], ------------- दारं -,-------------- मूलं [२९४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति:
प्रत सूत्रांक [२९४]
IS भावना स्त्रीवेदवद् भावनीया, 'दिवद्धसत्तभाग'मित्यादौ तु नपुंसकनिर्देशः प्राकृतत्वात् , नरकगतिनाम्नो जघन्यतः
सागरोपमसहस्रस्य द्वौ सप्तभागौ, किमुक्तं भवति ?-सागरोपमस्य द्वौ सप्तभागी सहस्रेण गुणिताविति, तदुत्कृष्टस्थितेविंशतिसागरोपमकोटाकोटीप्रमाणत्वात् , तद्वन्धस्य च सर्वजघन्यस्यासंक्षिपञ्चेन्द्रियस्ख भावात् , असंज्ञिपञ्चेन्द्रियकमवन्धस्य च जघन्येनैकेन्द्रियजघन्यकर्मबन्धापेक्षया सहस्रगुणत्वात्, भावयिष्यते चायमर्थो वैक्रियचिन्तायां, देवगति-18 नानो जघन्यतः सागरोपमसहस्रबैकः सप्तभागः, एकः सागरोपमख सप्तभागः सहस्रगुणित इति भावः, तस्य हि उत्कृष्टा स्थितिर्दश सागरोपमकोटीकोटयः, ततः प्रागुक्तकरणवशादेकः सागरोपमस्य सप्तभागो लब्धः, बन्धोऽपि चास्य जघन्यतोऽसंज्ञिपञ्चेन्द्रियस्येति सहस्रगुणितः, देवगतिनामसूत्रे 'उक्कोसेणं जहा पुरिसबेयस्स' इति 'दस सागरोवम-1 | कोडीओ दसवाससयाई अबाहा, अबाहूणिया कम्मठिई कम्मनिसेगों' इति वक्तव्यमिति भावः, द्वीन्द्रियजातिनामसूत्रे 'जहलेणं नव पणतीसहभागा पलिओवमस्स असंखेजइभागेण ऊणगा' इति, द्वीन्द्रियजातिनानो झुत्कृष्टा स्थितिरष्टादश सागरोपमकोटीकोटयः, 'अट्ठारस सुहुमविगलतिगे'त्ति [ सूक्ष्मा विकलेन्द्रियाश्चाष्टादश] बचनात् , ततोऽष्टा-| दशानां सागरोपमकोटीकोटीनां मिथ्यात्वस्योत्कृष्टया स्थित्या सप्ततिसागरोपमकोटाकोटीप्रमाणया भागो हियते, भागश्च न पूर्यते, ततः शून्य शून्येन पात्यते, जाता उपरि अष्टादश अधस्तात् सप्ततिस्तयोरर्द्धनापवर्तनालब्धा नव पञ्चत्रिंशद्भागास्ते पल्योपमासङ्ख्येयभागोनाः क्रियन्ते, आगतं सूत्रोक्तं परिमाणमिति, एवं त्रिचतुरिन्द्रियजातिनामसूत्रे
दीप अनुक्रम [५४१]
HRIRaitaram.org
~68~