SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (१५) “प्रज्ञापना" - उपांगसूत्र-४ (मूलं+वृत्ति:) पदं [२३], -------------- उद्देशकः [२], ------------- दारं -], -------------- मूलं [२९३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[१५]उपांगसूत्र-[४] "प्रज्ञापना" मूलं एवं मलयगिरि-प्रणीता वृत्ति: प्रत सूत्रांक [२९३] enenewestock दर्शनसमनन्तरमेव च जनोऽभ्युत्थानादि समाचरति तदादेयनाम, तद्विपरीतमनादेयं, यदुदयवशादुपपन्नमपि त्रुवाणो नोपादेयवचनो भवति नाप्युपक्रियमाणोऽपि जनस्तस्याभ्युत्थानादि समाचरति, तथा तपःशौर्यत्यागादिना समुपार्जितेन यशसा कीर्तनं-संशब्दनं यशःकीर्तिः, यद्वा यशः-सामान्येन ख्यातिः कीर्तिः-गुणोत्कीर्तनरूपा प्रशंसा अथवा सर्वदिग्गामिनी पराक्रमकृता वा सर्वजनोत्कीर्तनीयगुणता यशः एकदेशगामिनी पुण्यकृता वा कीर्तिः ते यदुदयवशाद्भवतस्तद्यशःकीर्तिनाम, यदुदयवशात् मध्यस्थस्थापि जनस्याप्रशस्यो भवति तदयशःकीर्तिनाम, तथा यदुदयवशाजन्तुशरीरेषु खखजात्यनुसारेणाप्रत्यङ्गानां प्रतिनियतस्थानयतिता भवति तन्निर्माणनाम, तच सूत्रधारकल्पं, तदभावे हि तद्भूतककल्पैरङ्गोपाङ्गनामादिभिर्निवर्तितानामपि शिरउरउदरादीनां स्थानवृत्तेरनियमः स्थात् , तथा यदुदयक्शात् अष्टमहाप्रातिहार्यप्रमुखाश्चतुस्विंशदतिशयाः प्रादुष्यन्ति तत्तीर्थकरनाम, तदेवमुक्ताः नामकर्मणो द्विचत्वारिंशद्भेदाः, सम्प्रत्येतेषामेव गत्यादीनामवान्तरभेदप्रतिपादनार्थमाह-गइनामे णं भंते ! कम्मे | कइविहे पं०' इत्यादि, समस्तमपि निगदसिद्धम् , उक्ता नामकर्मणो भेदाः, सम्प्रति गोत्रकर्मभेदानाह–'गोए णं भंते !' इत्यादि, यदुदययशादुत्तमजातिकुलबलतपोरूपैश्चर्यश्रुतसत्काराभ्युत्थानासनप्रदानाअलिप्रग्रहादिसम्भवस्तद्चैर्गोत्रं, यदुदयवशात् पुनर्ज्ञानादिसम्पन्नोऽपि निन्दा लभते हीनजात्यादिसम्भवं च तत् नीचैर्गोत्रं, उक्तौ गोत्रभेदो, सम्प्रति तयोरेव भेदानाह-उचगोए णं भंते ! कम्मे कइविहे पं०' इत्यादि सुगम, सम्प्रति अन्तरायभेदानाह C दीप अनुक्रम [५४०] - ~56~
SR No.035020
Book TitleSavruttik Aagam Sootraani 1 Part 20 Pragyapana Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages336
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pragyapana
File Size71 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy